SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ भागः, तत आगतं युगस्यादौ प्रथमं पर्व अमावास्यालक्षणमश्लेषा नक्षत्रस्य त्रयोदश मुहूर्त्तानेकस्य च मुहूर्त्तस्य एकविंशति द्वाषष्टिभागानेकस्य च द्वाषष्टिभागस्य एकं सप्तषष्टिभागं भुक्त्वा सूर्यः समापयति, तथा च वक्ष्यति — 'ता एएसि णं पंचन्हं संवच्छराणं पढमं अमावासं चंदे केण नक्खत्तेणं जोएइ ?, ता असिलेसाहि, असिलेसाणं एकमुहुत्ते चत्तालीसे बावट्ठिभागा मुहुत्तस्स बावट्टिभागं च सत्तट्ठिहा छित्ता छावट्ठि चुण्णिआ सेसा । तं समयं च णं सूरे केणं नक्खत्तेणं जोएइ ?, ता असिलेसाहिं चेव, असिलेसाणं एक्को मुहुत्तो चत्तालीसं बावट्टिभागा मुहुत्तस्स बावट्टिभागं च सत्तट्ठिहा छेत्ता छावडी चुण्णिया सेसा' इति, तथा यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे ?, राशित्रयस्थापना - १२४ । ५ । २ । अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशिः पञ्चकरूपो गुण्यते, जाता दश १०, तेषामाद्येन राशिना भागहरणं, ते च स्तोकत्वाद् भागं न प्रयच्छन्ति, ततो नक्षत्रानयनार्थमष्टादशभिः शतैस्त्रिंशदधिकैर्गुणयितव्या इति, गुणकारच्छेदराश्योर र्द्धनापवर्त्तना, जातो गुणकारराशिर्नव शतानि पञ्चदशोत्तराणि ९१५ छेदराशिद्वषष्टिः ६२, तत्र नवभिः शतैः पञ्चदशोत्तरैः दश गुण्यन्ते, जातानि एकनवतिः शतानि पञ्चाशदुत्तराणि ९१५०, तेभ्यः सप्तविंशतिः शतान्यष्टाविंशत्यधिकानि पुष्यसत्कानि शोध्यन्ते, स्थितानि पश्चाच्चतुःषष्टिः शतानि द्वाविंशत्यधिकानि ६४२२, छेदराशिद्वषष्टिरूपः सप्तषष्ट्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि ४१५४, तैर्भागो हियते, लब्धमेकं नक्षत्रं, तच्चाश्लेषारूपमश्लेषा नक्षत्रं चार्द्धक्षेत्रं अत एतद्गताः पञ्चदश सूर्यमुहूर्त्ता अधिका वेदितव्याः, शेषाणि तिष्ठन्ति द्वाविंशतिः शतान्यष्टषष्ट्यधिकानि २२६८, ततो मुहूर्त्तानयनार्थमेतानि त्रिंशता गुण्यन्ते, जाता Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy