________________
सूर्यप्रज्ञतिवृत्तिः
( मल० )
॥ १६२॥
शिद्वषष्टिरूपः सप्तषष्ट्या गुण्यते, जातानि एकचत्वारिंशत् शतानि चतुष्पश्चाशदधिकानि ४१५४, तैर्भागो हियते, तत्र राशेः स्तोकत्वाद् भागो न लभ्यते, ततो दिवसा आनेतव्याः, तत्र च छेदराशिद्वषष्टिरूपः परिपूर्णनक्षत्रानयनार्थ हि द्वाषष्टिः सप्तषष्ट्या गुणिताः, परिपूर्ण च नक्षत्रमिदानीं नायाति, ततो मूल एव द्वाषष्टिरूप छेदराशिः, केवलं पञ्चभिः सप्तषष्टिभागैरहोरात्रो भवति, ततो दिवसानयनाय द्वाषष्टिः पञ्चभिर्गुण्यते, जातानि त्रीणि शतानि दशोत्तराणि ३१०, तैर्भागो हियते, लब्धाः पञ्च दिवसाः, शेषं तिष्ठति द्वे शते सप्तनवत्यधिके २९७, ते मुहूर्त्तानयनार्थं त्रिंशता गुण्यन्ते, तत्र गुणकारच्छेदराश्योः शून्येनावपर्त्तना जातो गुणकारराशिस्त्रिकरूपञ्छेदराशिरेकत्रिंशत्, तत्र त्रिकेनोपरितनो राशिर्गुण्यते जातान्यष्टौ शतान्येकनवत्यधिकानि ८९१, तेषामेकत्रिंशता भागो हियते, लब्धा अष्टाविंशतिर्मुहूर्त्ताः २८ एकस्य च मुहूर्त्तस्य त्रयोविंशतिरेकत्रिंशद्भागाः आगतं प्रथमं पर्व अश्लेषानक्षत्रस्य पञ्च दिवसानेकस्य च दिवसस्याष्टाविंशतिं मुहूर्त्ता| नेकस्य च मुहूर्त्तस्य त्रयोविंशतिमेकत्रिंशद्भागान् भुक्त्वा समाप्तं, अथवा पुष्ये शुद्धे यानि स्थितानि पश्चादष्टादश शतानि सप्तचत्वारिंशदधिकानि १८४७, तानि सूर्य मुहूर्त्तानयनाय त्रिंशता गुण्यन्ते जातानि पञ्चपञ्चाशत्सहस्राणि चत्वारि शतानि दशोत्तराणि ५५४१०, तेषां प्रागुक्तेन छेदराशिना ४१५४ भागो हियते, लब्धास्त्रयोदश मुहूर्त्ताः १३, शेषाणि तिष्ठन्ति चतुर्द्दश शतान्यष्टोत्तराणि १४०८, ततोऽमूनि द्वाषष्टिभागानयनार्थं द्वाषष्ट्या गुणयितव्यानीति गुणकारच्छेदराश्योद्वषिष्ट्याऽपवर्त्तना, तत्र गुणकारराशिरेककरूपश्छेदराशि: सप्तषष्टिरूपस्तत्र एकेन गुणितो राशिस्तावानेव जातः १४०८, तस्य सप्तषष्ट्या भागो हियते, लब्धा एकविंशतिः २१ द्वाषष्टिभागा मुहूर्त्तस्य एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टि
३१
Jain Education International
For Personal & Private Use Only
१० प्राभृते
२० प्राभृतप्राभृते युगसंवत्स
राः सू ५६ पर्वकरणानि
॥ १६२॥
www.jainelibrary.org