SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ दष्टादशभिः शत पाटसमा या द्वाषष्टयनक्षत्राणि शुद्धानि द्रष्टवरणगाथात्रयाक्षरार्थ 5445454545454-550-50 भज सेसं । तं रिक्खं सूरस्स उ जत्थ समत्तं हवइ पवं ॥ ३ ॥ एतासां तिसृणां गाथानां क्रमेण व्याख्या-त्रैराशिकविधौ र चतुर्विंशत्यधिकशतप्रमाणं प्रमाणराशिं कृत्वा पञ्च पर्यायान् फलं कुर्यात् , कृत्वा च ईप्सितैः पर्वभिर्गुणं-गुणकारं विदहै ध्यात्, विधाय चाद्येन राशिना-चतुर्विशत्यधिकशतरूपेण भागो हर्त्तव्यो, भागे हृते यल्लब्धं ते पर्यायाः शुद्धा ज्ञातव्याः, यत्पुनः शेषमवतिष्ठते तदष्टादशभिः शतैः त्रिंशदधिकैर्गुण्यते, गुणिते च तस्मिन् सप्तविंशतिशतेषु अष्टाविंशत्यधिकेषु शुद्धेषु पुष्यः शुद्ध्यति, तस्मिन् शुद्धे सप्तषष्टिसङ्ग्या या द्वाषष्टयस्तासां सर्वाग्रेण यद्भवति, किमुक्तं भवति ?-सप्तषष्ट्या द्वाषष्टौ गुणितायां यद् भवति तेन भागे हृते यल्लब्धं तावन्ति नक्षत्राणि शुद्धानि द्रष्टव्यानि, यत्पुनस्ततोऽपि-भागहरणादपि शेषमवतिष्ठते तदृक्षं सूर्यस्य सम्बन्धि द्रष्टव्यं यत्र विवक्षितं पर्व समाप्तमिति, एष करणगाथात्रयाक्षरार्थः । भावना त्वियम्-यदि चतुर्विशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते तत एकेन पर्वणा किं लभामहे ?, राशित्रयस्थापना-१२४।५।१। अत्रान्त्येन राशिना मध्यराशिगुण्यते, जातस्तावानेव पञ्चकरूपः, तस्यायेन राशिना चतुर्विंशत्यधिकेन शतेन भागहरणं, स च स्तोकत्वाद्भागं न प्रयच्छति, ततो नक्षत्रानयनार्थ अष्टादशभिः शतैस्त्रिंशदधिकैः सप्तषष्टिभागैर्गुणयिष्याम इति गुणकारच्छेदराश्योरर्द्धनापवर्तना, जातो गुणकारराशिनव शतानि पञ्चदशोत्तराणि ९१५ छेदराशिषिष्टिः ६२, तत्र पञ्च नवभिः शतैः पञ्चदशोत्तरैगुण्यन्ते, जातानि पञ्चचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि ४५७५, पुष्यस्य चतुश्चत्वारिंशद् भागा द्वाषष्ट्या गुण्यन्ते, जातानि सप्तविंशतिः शतानि अष्टाविंशत्यधिकानि २७२८, एतानि पूर्वराशेः शोध्यन्ते, स्थितानि पश्चादष्टादश शतानि सप्तचत्वारिंशदधिकानि १८४७, तत्र छेदरा Jain Education Internal oral For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy