________________
वर्द्धितरूपपञ्चसंवत्सरं सूर्यसंवत्सरापेक्षया परिभाव्यमानमन्यूनातिरिक्तानि पञ्च वर्षाणि भवन्ति, सूर्यमासश्च सात्रिंश
दहोरात्रप्रमाणश्चन्द्रमास एकोनत्रिंशद्दिनानि द्वात्रिंशच्च द्वाषष्टिभागा दिनस्य, ततो गणितसम्भावनया सूर्यसंवत्सरसत्क४ात्रिंशन्मासातिकमे एकश्चन्द्रमासोऽधिको लभ्यते, स च यथा लभ्यते तथा (ज्ञापनाय ) पूर्वाचार्यप्रदर्शितेयं करणगाथा
'चंदस्स जो विसेसो आइच्चस्स य हविज मासस्स । तीसइगुणिओ संतो हवइ हु अहिमासगो एक्को ॥१॥' अस्या | अक्षरगमनिका-आदित्यसंवत्सरसम्बन्धिनो मासस्य मध्यात् चन्द्रस्य-चन्द्रमासस्य यो भवति विश्लेषः, इह विश्लेषे कृते सति यदवशिष्यते तदप्युपचाराद्विश्लेषः, स त्रिंशता गुणितः सन् भवत्येकोऽधिकमासः, तत्र सूर्यमासपरिमाणात् सार्द्धत्रिंशदहोरात्ररूपाच्चन्द्रमासपरिमाणमेकोनत्रिंशद्दिनानि द्वात्रिंशच्च द्वापष्टिभागा दिनस्येत्येवंरूपं शोध्यते, ततः स्थितं पश्चादिनमेकमेकेन द्वाषष्टिभागेन न्यूनं, तच्च दिनं त्रिंशता गुण्यते, जातानि त्रिंशदिनानि, एकश्च द्वापष्टिभागस्त्रिंशता गुणितो जातास्त्रिंशद् द्वापष्टिभागास्ते त्रिंशदिनेभ्यः शोध्यन्ते, ततः स्थितानि शेषाणि एकोनविंशद्दिनानि द्वात्रिंशच्च द्वापष्टिभागा दिनस्य, एतावत्परिमाणश्चान्द्रो मास इति भवति.सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे एकोऽधिकमासो, युगे च सूर्यमासाः षष्टिस्ततो भूयोऽपि सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे द्वितीयोऽधिकमासो भवति, उक्तं च-"सट्ठीए | अइयाए हवइ हु अहिमासगो जुगद्धमि । बावीसे पवसए हवइ य बीओ जुगळूमि ॥१॥" अस्याप्यक्षरगमनिकाएकस्मिन् युगेऽनन्तरोदितस्वरूपे पर्वणां-पक्षाणां षष्टौ अतीतायां, षष्टिसङ्ख्येषु पक्षेष्वतिक्रान्तेषु इत्यर्थः, एतस्मिन्नवसरे युगाद्धेषु-युगार्द्धप्रमाणे एकोऽधिकमासो भवति, द्वितीयस्त्वधिकमासो द्वाविंशे-द्वाविंशत्यधिके पर्वशते-पक्षशतेऽति
45453
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org