________________
विंशत्यधिकानि एकपश्चाशच्च सप्तपष्टिभागा अहोरात्रस्य एतावत्प्रमाणो नक्षत्रसंवत्सरः।युगं पञ्चवर्षात्मकं तत्पूरकः संवत्सरो युगसंवत्सरः। युगस्य प्रमाणहेतुः संवत्सरःप्रमाणसंवत्सरः।लक्षणेन यथावस्थितेनोपेतः संवत्सरो लक्षणसंवत्सरः शनैश्चरनिष्पादितः संवत्सरः शनैश्चरसंवत्सरः शनैश्चर सम्भवः । तदेवं पश्चापि शनैश्चर संवत्सरान नामतःप्रतिपाद्य सम्प्रत्येतेषामेव |संवत्सराणां यथाक्रमं भेदानाह–ता नक्खत्ते'त्यादि, ता इति प्राग्वत् नक्षत्रसंवत्सरो द्वादशविधो-द्वादशप्रकारः, तद्यथा-'श्रावणोभाद्रपद इत्यादि, इह एकः समस्तनक्षत्रयोगपर्यायोद्वादशभिर्गुणितो नक्षत्रसंवत्सरः, ततो ये नक्षत्रसंवत्सरस्य पूरका द्वादश समस्तनक्षत्रयोगपर्यायाः श्रावणभाद्रपदादिनामानस्तेऽप्यवयवे समुदायोपचारात् नक्षत्रसंवत्सरः, ततः श्रावणादिभेदात् द्वादशविधो नक्षत्रसंवत्सरः, 'जं वे'त्यादि, वाशब्दः पक्षान्तरसूचने, अथवा यत् सर्व-समस्तं नक्षत्रमण्डलं बृहस्पतिर्महाग्रहो योगमधिकृत्य द्वादशभिः संवत्सरैः समानयति-परिभ्रमन् समापयति एष नक्षत्रसंवत्सरः, किमुक्तं भवति ?-यावता कालेन बृहस्पतिनामा महाग्रहो योगमधिकृत्याभिजिदादीन्यष्टाविंशतिमपि नक्षत्राणि परिसमापयति तावान् कालविशेषो द्वादशवर्षप्रमाणो नक्षत्रसंवत्सरः।
ता जुगसंवच्छरे णं पंचविहे पण्णत्ते, तं०-चंदे चंदे अभिवहिए चंदे अभिवहिए चेव, ता पढमस्स णं चंदस्स संवच्छरस्स चउवीसं पचा पं०, दोच्चस्स णं चंदसंवच्छरस्स चउवीसं पचा पं०, तच्चस्स णं अभिवड्डितसंवच्छरस्स छंचीसं पवा पं०, चउत्थस्स णं चंदसंबच्छरस्स चउवीसं पवा पं०, पंचमस्स णं अभिवडियसंव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org