SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ १० प्राभृते १८प्राभूत प्राभूते चाराःसू५२ सूर्यप्रज्ञ प्रश्नसूत्रमाह-ता कहं ते इत्यादि, ता इति प्राग्वत्, कथं ?-केन प्रकारेण, कया सङ्ख्यया इत्यर्थः, त्वया भगवन् ! तिवृत्तिः चन्द्रचारा आख्याता इति वदेत्, भगवानाह-'तापंचे'त्यादि, ता इति पूर्ववत्, पञ्चसांवत्सरिके-चन्द्रचन्द्राभिवर्द्धितचन्द्रा(मलाल | भिवर्द्धितरूपपञ्चसंवत्सरप्रमाणे णमिति वाक्यालङ्कारे युगे अभिजिन्नक्षत्रं सप्तषष्टिं चारान् यावत् चन्द्रेण साई योगं ॥१५२॥ युनक्ति-योगमुपपद्यते, किमुक्तं भवति ?-चन्द्रोऽभिजिन्नक्षत्रेण सह संयुक्तो युगमध्ये सप्तषष्टिसङ्ख्यान् चारान् चरतीति, कथमेतदवसीयते इति चेत्, उच्यते, इह योगमधिकृत्य सकलनक्षत्रमण्डलीपरिसमाप्तिरेकेन नक्षत्रमासेन भवति, नक्षत्रमासाश्च युगमध्ये सप्तषष्टिरेतच्चाग्रे भावयिष्यते ततः प्रतिनक्षत्रपर्यायमेकैकं चारमभिजिता नक्षत्रेण सह चन्द्रस्य, योगसम्भवादुपपद्यते चन्द्रोऽभिजिता नक्षत्रेण सह संयुक्तो युगमध्ये सप्तषष्टिसख्यान् चारान् चरतीति, एवं प्रतिनक्षत्रं भावनीयं । सम्प्रति आदित्यचारविषयं प्रश्नसूत्रमाह-'ता कहं ते'इत्यादि, ता इति प्राग्वत्, कर्थ-किंप्रमाणया सङ्ख्यया भगवन् ! त्वया आदित्यचारा आख्याता इति वदेत् १, भगवानाह-पंचसंवच्छरिए 'मित्यादि, ता इति पूर्ववत्, पञ्चसांवत्सरिके-चन्द्रादिपञ्चसंवत्सरप्रमाणे युगे युगमध्येऽभिजिन्नक्षत्रं पञ्च चारान यावत् सूर्येण सह योगं युनक्ति, |अत्राप्ययं भावार्थ:-अभिजिता नक्षत्रेण संयुक्तः सूर्यो युगमध्ये पञ्चसायान चारान् चरति, कथमेतदवगम्यते इति चेत्,। उच्यते, इह योगमधिकृत्य सूर्यस्य सकलनक्षत्रमण्डलीपरिसमाप्तिरेकेन सूर्यसंवत्सरेण, सूर्यसंवत्सराश्च युगे भवन्ति पञ्च, ततः प्रतिनक्षत्रपर्यायमेकैकं वारमभिजिता नक्षत्रेण सह योगस्य सम्भवात् घटतेऽभिजिता नक्षत्रेण सह संयुक्तः सूर्यो| +HRE ॥१५२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy