________________
SHRESS4%
पुमान् कार्य साधयति, दना सम्मिश्रमोदनं भुक्त्वा, किमुक्तं भवति -कृत्तिकासु प्रारब्धं कार्य दनि भुक्ते प्रायो निर्विघ्नं है सिद्धिमासादयतीति, एवं शेषेष्वपि सूत्रेषु भावना द्रष्टव्या ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्य सप्तदशं प्राभृतप्राभृतं समाप्तम् ॥
तदेवमुक्तं दशमस्य प्राभृतस्य सप्तदशं प्राभृतप्राभृतं, सम्प्रत्यष्टादशमारभ्यते, तस्य चायमर्थाधिकारः-'चन्द्रादिदत्यचारा वक्तव्याः' ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहं ते चारा आहिताति वदेजा, तत्थ खलु इमा दुविहा चारा पं०, तं०-आदिच्चचारा य चन्दचारा य, ता कहं ते चंदचारा आहितेति वदेजा १, ता पंचसंवच्छरिएणं जुगे, अभीइणक्खत्ते सत्तसद्विचारे चंदेण सद्धिं जोयं जोएति, सवणे णं णक्खत्ते सत्तर्हि चारे चंदेण सद्धिं जोयं जोएति, एवं जाव उत्तरासाढाणक्खत्ते सत्तहिचारे चंदेणं सद्धिं जोयं जोएति । ता कहं ते आइच्चचारा आहितेति वदेज्जा ?, ता पंचसंवच्छ|रिए णं जुगे, अभीयीणक्खत्ते पंचचारे सूरेण सद्धिं जोयं जोएंति, एवं जाव उत्तरासाढाणक्खत्ते पंचचारे | सूरेण सद्धिं जोयं जोएति (सूत्रं ५२) दसमस्स पाहुडस्स अट्ठारसमं पाहुडपाहुडं समत्तं ॥
'ता कहं ते'इत्यादि, ता इति पूर्ववत् , कथं ?-केन प्रकारेण किंप्रमाणया सङ्ख्यया इत्यर्थः, चारा आख्याता इति वदेत् , भगवानाह-तत्थेत्यादि, तत्र-चारविचारविषये खल्विमे वक्ष्यमाणस्वरूपा द्विविधा-द्विप्रकाराश्चाराः प्रज्ञप्ता, द्वैविध्यमेवाह-तद्यथा-आदित्यचाराश्चन्द्रचाराश्च, चशब्दौ परस्परसमुच्चये, तत्र प्रथमतश्चन्द्रचारपरिज्ञानार्थ तद्विषयं
RSS4545524
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org