________________
एषु मध्ये प्रक्षिप्यन्ते, तत आगतं चन्द्रमासे मुहूर्त्तपरिमाणमष्टौ शतानि पश्चाशीत्यधिकानि त्रिंशच्च द्वाषष्टिभागा मुहूर्त्तस्य । कर्म्ममासश्च त्रिंशदहोरात्रप्रमाणस्ततस्तत्र मुहूर्त्तपरिमाणं नव शतानि परिपूर्णानि, तदेवं मासगतं मुहूर्त्त परिमाणमुक्तं, प्रतदनुसारेण च चन्द्रादिसंवत्सरगतं युगगतं च मुहूर्त्तपरिमाणं स्वयं परिभावनीयं । तथा च सत्यवगतं मुहर्त्तपरिमाणं, सम्प्रति प्रत्ययने ये दिवसरात्रविषये मुहूर्त्तानां वृद्ध्यपवृद्धी ते अवबोद्धुकाम इदं पृच्छति
ता जया णं सूरिए सवन्भंतरातो मंडलातो सङ्घबाहिरं मंडलं उवसंकमित्ता चारं चरति सङ्घबाहिरातो मंडलातो सवभंतरं मंडलं उवसंकमित्ता चारं चरति, एस णं अद्धा केवतियं रातिंदियग्गेणं आहितेत्ति वदेज्जा ?, ता तिण्णि छावट्टे रातिंदियसए रातिंदियग्गेणं आहितेतिवदेखा (सूत्रं ९ ) ता एताए अद्धाए सूरिए कति मंडलाई चरति ?, ता चुलसीयं मंडलसतं चरति, बासीति मंडलसतं दुक्खुत्तो चरति, तंजहा - णिक्खममाणे चेव पवेसमाणे चेव, दुवे य खलु मंडलाई सई चरति, तंजहा - सङ्घ अंतरं चेव मंडलं सङ्घबाहिरं चेव मंडलं ( सूत्रं १० ) ॥
'ता जया ण'मित्यादि, तावच्छन्दार्थभावना सर्वत्रापि प्रागुक्तानुसारेण यथायोगं स्वयं परिभावनीया, शेषस्य च वाक्यस्यायमर्थः - 'यदा' यस्मिन् काले, णमिति वाक्यालङ्कारे, सूर्यः सर्वाभ्यन्तरान्मण्डलाद्विनिर्गत्य प्रत्यहोरात्रमेकैकमण्डलचारेण यावत् सर्वबाह्यं मण्डलमुपसङ्क्रम्य चारं चरति - परिभ्रमणमुपपद्यते, सर्वबाह्याच्च मण्डलादपसृत्य प्रतिरात्रिन्दिवमेकैकमण्डलपरिभ्रमणेन यावत्सर्वाभ्यन्तरं मण्डलमुपसङ्क्रम्य चारं चरति, 'एषा' एतावती, णमिति पूर्ववत् अद्धा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org