________________
सूर्यप्रज्ञतिवृत्तिः ( मल० )
॥ १० ॥
धिकानि १८३०, तत एतेषां सप्तषष्ट्या भागो हियते लब्धाः सप्तविंशतिरहोरात्राः, शेषा तिष्ठति एकविंशतिः, सा मुहूतनयनार्थ त्रिंशता गुण्यते, जातानि षट् शतानि त्रिंशदधिकानि ६३०, तेषां सप्तषष्ट्या भागे हृते लब्धा नव मुहूर्त्ताः ९, शेषाऽवतिष्ठते सप्तविंशतिः आगतं नक्षत्रमासः सप्तविंशतिरहोरात्राः नव मुहूर्त्ता एकस्य च मुहूर्त्तस्य सप्तविंशतिः सप्तषष्टिभागाः, तत्र सप्तविंशतिरहोरात्रा मुहूर्त्तकरणार्थं त्रिंशता गुण्यन्ते जातान्यष्टौ शतानि दशोत्तराणि ८१०, तेषां मध्ये उपरितना नव मुहूर्त्ताः प्रक्षिप्यन्ते, जातान्यष्टौ शतान्येकोनविंशत्यधिकानि ८१९, आगतं नक्षत्रमासे मुहूर्त्तपरिमाणमष्टौ शतान्ये कोनविंशत्यधिकानि एकस्य च मुहूर्त्तस्य सप्तविंशतिः सप्तषष्टिभागा इति । इदं च नक्षत्रमासगतमुहूर्त्तपरिमाणं उपलक्षणं, तेन सूर्यादिमासानामध्यहोरात्रसङ्ख्यां परिभाव्य मुहूर्त्तपरिमाणं यथाऽऽगमं भावनीयं तच्चैवम् — सूर्यमासा युगे षष्टिर्भवन्ति, युगे चाष्टादश शतानि त्रिंशदधिकान्यहोरात्राणां ततस्तेषां पष्ट्या भागे हृते लब्धा त्रिंशदहोरात्राः एकस्य चाहोरात्रस्यार्द्ध, एतावत्सूर्यमासपरिमाणं त्रिंशन्मुहूर्त्तश्चाहोरात्र इति त्रिंशत्रिंशता गुण्यते, जातानि नव शतानि मुहूर्त्तानां, अर्द्ध चाहोरात्रस्य पश्चदश मुहूर्त्ताः, तत आगतं सूर्यमासे मुहूर्त्तपरिमाणं नव शतानि पञ्चदशोत्तराणि ९१५ तथा युगे द्वाषष्टिश्चन्द्रमासास्ततोऽष्टादशशतानां त्रिंशदधिकानां द्वापष्ट्या भागो ह्रियते, लब्धा एकोनत्रिंशदहोरात्रा द्वात्रिंशश्च द्वाषष्टिभागा अहोरात्रस्य तत्र द्वात्रिंशद् द्वाषष्टिभागा मुहूर्त्तस्य करणार्थं त्रिंशता गुण्यन्ते, जातानि नव शतानि षष्ट्यधिकानि ९६०, तेषां द्वाषष्ट्या भागो हियते, लब्धाः पञ्चदश मुहूर्त्ताः, शेषा तिष्ठति त्रिंशत् ३०, एकोनत्रिंशच्चाहोरात्रा मुहूर्त्तकरणार्थं त्रिंशता गुण्यन्ते, जातान्यष्टौ शतानि सप्तत्यधिकानि ८७०, ततः पाश्चात्याः पश्चदश मुहूर्त्ता
Jain Education International
For Personal & Private Use Only
१ प्राभृते १ प्राभृतप्राभृतं
॥ १० ॥
www.jainelibrary.org