________________
द्वितीयस्यामात्मीयाभ्यां द्वाभ्यां पञ्चदशभागाभ्यां द्वौ पञ्चदशभागौ, तृतीयस्यामात्मीयैस्त्रिभिः पञ्चदशभागैस्त्रीन् पश्चदशभागान् एवं यावदमावास्यायां पञ्चदश भागानावृणोति, ततः शुक्लपक्षे प्रतिपदि एकं पञ्चदशभागं प्रकटीकरोति, द्वितीयस्यां द्वौ पश्चदशभागौ तृतीयस्यां त्रीन् पश्चदशभागान् एवं यावत् पञ्चदश्यां पञ्चदशापि भागाननावृतान् करोति, तदा च सर्वात्मना परिपूर्ण चन्द्रमण्डलं लोके प्रकटं भवति, वक्ष्यति चामुमर्थमग्रेऽपि सूत्रकृत् - ' तत्थ णं जे से धुवराहू से णं बहुलपक्खस्स पडिवर पण्णरसभागेण' मित्यादिना ग्रन्थेन, तत्र यावता कालेन कृष्णपक्षे षोडशो भागो द्वापष्टिभागसत्कचतुर्भागात्मको हानिमुपगच्छति स तावान् कालविशेषस्तिथिरित्युच्यते, तथा यावता कालेन शुक्लपक्षे षोडशभागो द्वाषष्टिभागसत्कभागचतुष्टयप्रमाणः परिवर्द्धते तावत्प्रमाणः कालविशेषस्तिथिर्भवति, उक्तं च - " सोलसभागा काकण उडुवई हायएत्थ पन्नरस । तित्तियमित्ते भागे पुणोऽवि परिवहुए जोन्हे ॥ १ ॥ कालेण जेण हायइ सोलस भागो उसा तिही होइ । तह चैव य वुडीए एवं तिहिणो समुप्पत्ती ||२||" अत्र 'जोन्हे' इति जोत्स्ने शुक्लपक्षे इत्यर्थः शेषं सुगमं, अयं च पूर्वाचार्यपरम्परायात उपनिषदुपदेशः- अहोरात्रस्य द्वाषष्टिभागप्रविभक्तस्य ये एकषष्टिभागास्तावत्प्रमाणा तिथिरिति, अथाहोरात्रस्त्रिंशन्मुहूर्त्तप्रमाणः सुप्रतीतः, प्रागेव सूत्रकृता तस्य तावत्प्रमाणतयाऽभिधानात् तिथिस्तु किंमुहूर्त्तप्रमाणेति १, उच्यते, परिपूर्णा एकोनत्रिंशन्मुहूर्त्ता एकस्य च मुहूर्त्तस्य द्वात्रिंशद् द्वाषष्टिभागाः, उक्तं च"अउणत्तीसं पुन्ना उ मुहुत्ता सोमओ तिही होइ । भागावि य बत्तीसं बाव ( दुस) डिकाएण छेएणं ॥ १॥ " कथमेतदवसीयते इति चेत्, उच्यते, इह अहोरात्रस्य द्वाषष्टिभागीकृतस्य सत्का ये एकषष्टिभागास्तावत्प्रमाणा तिथिरित्युच्यते, तत्रैकषष्टि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org