________________
१. प्राभूते १५माभृत| प्राभृते दिवसरात्रि तिथिनामा नि सू ४९
सूर्यप्रज्ञ
जसवती सबसिद्धा सुहणामा, एते तिगुणा तिहीओ सवासिं रातीणं ॥ (सूत्रं ४९) दसमस्स पाहुडस्स विवृत्तिः पण्णरसमं पाहुडपाहुडं समत्तं ॥ (मल०) । 'ता कहं ते तिही'त्यादि, 'ता' इति पूर्ववत्, कथं ?-केन प्रकारेण केन क्रमेण तिथय आख्याता इति वदेत् , ननु
दिवसेभ्यस्तिथीनां कः प्रतिविशेषः येन एताः पृथक् पृछयन्ते ?, उच्यते, इह सूर्यनिष्पादिता अहोरात्राः चन्द्रनिष्पा॥१४८॥
|दिताः तिथयः, तत्र चन्द्रमसा तिथयो निष्पाद्यन्ते वृद्धिहानिभ्यां, तथा चोक्तम्-"तं रयय कुमुयसिरिसप्पभस्स चंदस्स राइसुरुगस्स । लोए तिहित्ति निययं भण्णइ वुड्डीऍ हाणीऍ॥१॥" [त्वं रचय ( पूजां ) कुमुदश्रीसत्प्रभस्य चन्द्रस्य रात्रिसुरुचेः । लोके तिथिरिति नियतं भण्यते ( यस्य ) वृक्ष्या हान्या ॥१॥] तत्र वृद्धिहानी चन्द्रमण्डलस्य न स्वरूपतः किन्तु राहुविमानावरणानावरणकृते, तथाहि-इह द्विविधो राहुः, तद्यथा-पर्वराहुः ध्रुवराहुश्च, तत्र यः पर्वराहुः तद्गता चिन्ताऽत्रानुपयोगिनीत्यग्रे वक्ष्यते क्षेत्रसमासटीकायां वा कृतेति ततोऽवधार्या, यस्तु ध्रुवराहुस्तस्य विमानं
कृष्णं, तच्च चन्द्रमण्डलस्याधस्ताच्चतुरङ्गलमसम्प्राप्तं सत् चारं चरति, तत्र चन्द्रमण्डलं बुद्ध्या द्वाषष्टिसङ्खयोगैः परिकदाप्यते, परिकल्प्य च तेषां भागानां पञ्चदशभिर्भागो हियते, लब्धाश्चत्वारो द्वापष्टिभागाः शेषौ द्वौ भागौ तिष्ठतः, तौ
च सदा ता वृद्धौ (सदानावृतौ) एपा किल चन्द्रमसः षोडशी कलेति प्रसिद्धिः, तत्र कृष्णपक्षे प्रतिपदि ध्रुवराहुविमानं कृष्णं, तच्च चन्द्रमण्डलस्याधस्ताच्चतुरङ्गलमसंप्राप्तं सत् चारं चरत् आत्मीयेन पञ्चदशेन भागेन द्वौ द्वापष्टिभागी सदाऽनावार्यस्वभावौ मुक्त्वा शेषषष्टिसत्कषष्टिभागात्मकस्य चन्द्रमण्डलस्य एक चतुर्भागात्मकं पञ्चदशभागमावृणोति,
१४८॥
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org