SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञ प्तिवृत्तिः (मल.) ॥१४९॥ RAKASH स्त्रिंशता गुण्यते जातानि अष्टादश शतानि त्रिंशदधिकानि १८३०, एते च किल द्वाषष्टिभागीकृतसकलतिथिगतमुहूर्त १० प्राभृते सत्का अंशाः, ततो मुहूर्तानयनार्थ तेषां द्वाषष्ट्या भागो हियते, लब्धा एकोनत्रिंशन्मुहूर्त्ता द्वात्रिंशच्च द्वापष्टिभागा मुह- १५प्राभूततस्य, एतावन्मुहूर्त्तप्रमाणा तिथिः, एतावता हि कालेन चन्द्रमण्डलगतःपूर्वोदितप्रमाणः षोडशो भागो हानि वोपगच्छति | प्राभृते वर्द्धते वा, तत एतावानेव तिथेः परिमाणकालः, तदेवमहोरात्रादस्ति तिथेः प्रतिविशेष इत्युपपन्नस्तिथिविषये पृथक्प्रश्नः, दिवसरात्रि एवं गौतमेन प्रश्ने कृते भगवानाह-तत्थ खलु'इत्यादि, तत्र-तिथिविचारविषये खल्विमा-वक्ष्यमाणस्वरूपा द्विविधा तिथिनामा नि सू ४९ स्तिथयः प्रज्ञप्ताः, तद्यथा-दिवसतिथयो रात्रितिथयश्च, तत्र तिथेयः पूर्वार्द्धभागःस दिवसतिथिरित्युच्यते, यस्तु पश्चार्द्धभागः स रात्रितिथिरिति, 'ता कह'मित्यादि, ता इति पूर्ववत् , कथं ?-केन प्रकारेण कया नाम्नां परिपाव्या इत्यर्थः, दिवसतिथय आख्याता इति वदेत् , भगवानाह-'एगमेगस्स ण'मित्यादि, ता इति पूर्ववत्, एकैकस्य णमिति वाक्या&ालङ्कारे पक्षस्य मध्ये पञ्चदश दिवसतिथयः प्रज्ञप्ताः, तद्यथा-प्रथमा नन्दा द्वितीया भद्रा तृतीया जया चतुर्थी तुच्छा पश्चमी पक्षस्य पूर्णा, ततः पुनरपि षष्ठी तिथिर्नन्दा सप्तमी भद्रा अष्टमी जया नवमी तुच्छा दशमी पक्षस्य पूर्णा, ततः पुनरप्येकादशी तिथिर्नन्दा द्वादशी भद्रा त्रयोदशी जया चतुर्दशी तुच्छा पक्षस्य पञ्चदशी पूर्णा, एव'मित्यादि, एवं-उक्तेन प्रकारेण, एते इति स्त्रीत्वेऽपि प्राप्ते पुंस्त्वनिर्देशः प्राकृतत्वात् , एता अनन्तरोदितास्तिथयो नन्दाद्याः, नन्दादीन्यनन्तरो| दितानि तिथिनामानीत्यर्थः, त्रिगुणाः, त्रिगुणितानीति भावः, सर्वेषां पक्षान्तर्वर्तिनां दिवसानां, सर्वासां पक्षान्तवर्तिनीनां दिवसतिथीनामित्यर्थः, 'ता कहं ते'इत्यादि, ता इति पूर्ववत् , कथं ?-केन प्रकारेण, कया नाम्नां परिपाव्या ॥१४॥ Jain Education International For Personal & Private Use Only wwww.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy