________________
सूर्यप्रज्ञशिवृत्तिः ( मल० )
॥१३७॥
चंदस्स दाहिणेणवि उत्तरेणवि पमर्द्दपि जोयं जोएंति ते णं सत्त, तंजहा - कन्तिया रोहिणी पुणवसू महा चित्ता विसाहा अणुराहा, तत्थ जे ते नक्खत्ता जे णं चंदस्स दाहिणेणवि पमपि जोयं जोएंति ताओ णं दो आसाढाओ सङ्घबाहिरे मंडले जोयं जोएंसु वा जोएंति वा जोएस्संति वा, तत्थ जे ते णक्खत्ते जेणं सदा चंदस्स पमहं जोयं जोएंति, सा णं एगा जेट्टा ( सूत्रं ४४ ) ॥
'ता कहं ते' इत्यादि, ता इति पूर्ववत्, कथं ? - केन प्रकारेण नक्षत्राणां दक्षिणत उत्तरतः प्रमतो यदिवा सूर्यनक्षत्रेविरहिततया अविरहिततया चन्द्रस्य मार्गाः - चन्द्रस्य मण्डलगत्या परिभ्रमणरूपा मण्डलरूपा वा मार्गा आख्याता इति वदेत्, भगवानाह - 'ता एएसि ण'मित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतिनक्षत्राणां मध्येऽस्तीति निपातत्वादार्थत्वाद्वा सन्ति तानि नक्षत्राणि यानि णमिति वाक्यालङ्कारे सदा चन्द्रस्य दक्षिणेन-दक्षिणस्यां दिशि व्यवस्थितानि योगं युञ्जन्ति-कुर्वन्ति, तथा सन्ति तानि नक्षत्राणि यानि सदा चन्द्रस्य उत्तरेण- उत्तरस्यां दिशि व्यवस्थितानि योगं युञ्जन्ति, तथा सन्ति तानि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामपि दिशि स्थितानि उत्तरस्यामपि दिशि स्थितानि योगं युञ्जन्ति, प्रमर्द्दमपि - प्रमर्द्दरूपमपि योगं कुर्वन्ति, तथा सन्ति तानि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामपि दिशि व्यवस्थितानि योगं युञ्जन्ति प्रमद्दरूपमपि योगं युञ्जन्ति, अस्ति तन्नक्षत्रं यत्सदा चन्द्रस्य प्रमर्द्दरूपं योगं युनक्ति, एवं सामान्येन भगवतोक्ते भगवान् गौतमो विशेषावगमनिमित्तं भूयः प्रश्नयति- 'ता एएसि ण'मित्यादि, सुगमं, भगवानाह - 'ता एएसि ण'मित्यादि, ता इति पूर्ववत्, एतेषामनन्तरोदितानामष्टाविंशतिनक्षत्राणां मध्ये यानि नक्षत्राणि सदा चन्द्रस्य दक्षिणस्यां
Jain Education International
For Personal & Private Use Only
१० प्राभृते ११ प्राभूतप्राभृते चन्द्रभ्रममार्गः
ग्रं सू ४४
॥१३७॥
www.jainelibrary.org