________________
दिशि व्यवस्थितानि योगं कुर्वन्ति तानि षट्, तद्यथा - मृगशिर आर्द्रा पुष्योऽश्लेषा हस्तो मूलश्च, एतानि हि सर्वाण्यपि पञ्चदशस्य चन्द्रमण्डलस्य बहिश्चारं चरन्ति, तथा चोक्तं करणविभावनायां - 'पन्नरसमस्स चंद मंडलस्स बाहिरओ मिगसिर अद्दा पुरसो असिलेहा हत्थ मूलो य” जम्बूद्वीपप्रज्ञप्तावप्युक्तम् - " संठाण अद्द पुस्सोऽसिलेस हत्थो तहेव मूलो य । बाहिरओ बाहिरमंडलस्स छप्पे य नक्खत्ता ॥ १ ॥ ततः सदैव दक्षिणदिग्व्यवस्थितान्येव तानि चन्द्रेण सह योगं युञ्जन्त्युपपद्यन्ते नान्यथेति, तथा तत्र तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यानि तानि नक्षत्राणि यानि सदा-सर्वकालं चन्द्रस्योत्तरेण- उत्तरस्यां दिशि व्यवस्थितानि योग युजन्ति - कुर्वन्ति तानि द्वादश, तद्यथा-'अभिई' इत्यादि, एतानि हि द्वादशापि नक्षत्राणि सर्वाभ्यन्तरे चन्द्रमण्डले चारं चरन्ति, तथा चोक्तं करणविभावनायां - " से पढमे सब अंतरे चंदमंडले नक्खत्ता इमे, तंजहा - अभिई सवणो धणिट्ठा सयभिसया पुबभद्दवया उत्तरभदवया रेवई अस्सिणी भरणी पुवफग्गुणी उत्तर फग्गुणी साई” इति यदा चैतैः सह चन्द्रस्य योगस्तदा स्वभावाच्चन्द्रः शेषेष्वेव मण्डलेषु वर्त्तते, ततः सदैवैतान्युत्तरदिग्व्यवस्थितान्येव चन्द्रमसा सह योगमुपयन्तीति, तथा तत्र तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यानि तानि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामपि दिशि व्यवस्थितानि योगं युञ्जन्ति उत्तरस्यामपि दिशि व्यवस्थितानि योगं युञ्जन्ति प्रमर्द्दरूपमपि योगं युञ्जन्ति तानि सप्त, तद्यथा - कृत्तिका रोहिणी पुनर्वसु मघा चित्रा विशाखा अनुराधा, केचित् पुनयेठानक्षत्रमपि दक्षिणोत्तरप्रमर्द्दयोगि मन्यन्ते, तथा चोक्तं लोकश्रियाम् - 'पुणबसु रोहिणिश्चित्तामह जेणुराह कत्तिय विसाहा । चंदस्स उभयजोगी' त्ति, अत्र 'उभयजोगि'त्ति व्याख्यानयता टीकाकृतोक्तं - एतानि नक्षत्राणि उभययो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org