SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ SANSAR पौरुषी भवति, इदं च पौरुषीपरिमाणं व्यवहारत उक्तं, निश्चयतः सात्रिंशता अहोरात्रैश्चतुरङ्गला वृद्धिर्हानिर्वा वेदितव्या, तथा च निश्चयतः पौरुषीपरिमाणप्रतिपादनार्थमिमाः पूर्वाचार्यप्रदर्शिताः करणगाथा:-"पवे पन्नरसगुणे तिहि सहिए पोरिसीऍ आणयणे । छलसीयसयविभत्ते जं लद्धं तं वियाणाहि ॥१॥ जइ होइ विसमलद्धं दक्षिणमयणं ठविज नायवं । अह हवइसमं लद्धं नायवं उत्तरं अयणं ॥२ ॥ अयणगए तिहिरासी चतुग्गुणे पक्षपाय भइयवं । जे लद्धर्मगुलाणि खयवुड्डी पोरुसीए उ॥३॥ दक्खिणबुड्डी दुपया अंगुलयाणं तु होइ नायबा। उत्तर अयणे हाणी कायवा चउहि पाएहिं ॥४॥ सावणबहुलपडिवया दुपया पुण पोरिसी धुवा होइ । चत्तारि अंगुलाई मासेणं वहुए तत्तो ॥५॥ इकत्तीसइ भागा तिहिए पुण अंगुलस्स चत्तारि । दक्खिणअयणे वुड्डी जाव उ चत्तारि उ पयाई ॥६॥ उत्तर अयणे हाणी चरहिं पायाहि जाव दो पाया। एवं तु पोरिसीए वुडिखया हुंति नायबा ॥७॥ वुड्डी वा हाणी वा जावइया पोरिसीए दिहा उ।तत्तो दिवसगएणं जं लद्धं तं खु अयणगयं ॥८॥" एतासां क्रमेण व्याख्या-युगमध्ये यस्मिन् पर्वणि यस्यां तिथौ । पौरुषीपरिमाणं ज्ञातुमिष्यते ततः पूर्व युगादित आरभ्य यानि पर्वाण्यतिक्रान्तानि तानि थ्रियन्ते, धृत्वा च पञ्चदशभिर्गुण्यन्ते, गुणयित्वा च विवक्षितायास्तिथेः प्रागतिक्रान्तास्तिथयस्ताभिः सहितानि क्रियन्ते, कृत्वा च षडशीत्यधिकेन शतेन तेषां भागो हियते, इह एकस्मिन्नयने त्र्यशीत्यधिकमण्डलशतपरिमाणे चन्द्रनिष्पादितानां तिथीनां षडशीत्यधिकं शतं भवति, ततस्तेन भागहरणं भागे च हृते यल्लब्धं तद्विजानीहि सम्यगवधारयेत्यर्थः । तत्र यदि लब्धं विषमं भवति यथा एकस्त्रिका पञ्चकः सप्तको नवको वा तदा तत्पर्यन्तवति दक्षिणमयनं ज्ञातव्यं, अथ भवति लब्धं समं तद्यथा-द्विकश्चतुष्कः षट्ठोड AUGAISAUSAS SAIRAUHARRIGA CASA Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy