________________
१०प्राभृते १० प्राभृतला प्राभृते पौरुष्याधिकारःसू४३
सूर्यप्रज्ञ
ष्टको दशको वा तदा तत्पर्यन्तवति उत्तरायणमवसेयं, तदेवमुक्तो दक्षिणायनोत्तरायणपरिज्ञानोपायः। सम्प्रति षडशीत्यतिवृत्तिः |धिकेन शतेन भागे हृते यच्छेषमवतिष्ठते यदिवा भागासम्भवेन यच्छेषं तिष्ठति तद्गतविधिमाह-'अयणगए'इत्यादि. (मल०) है यः पूर्व भागे हृते भागासम्भवे वा शेषीभूतोऽयनगतस्तिथिराशिर्वर्त्तते से चतुर्भिर्गुण्यते, गुणयित्वा च पर्वपादेन
युगमध्ये यानि सर्वसङ्ख्यया (ग्रंथाग्रं० ४०००) पर्वाणि चतुर्विशत्यधिकशतसक्यानि तेषां पादेन-चतुर्थेनांशेन एकत्रि- ॥१३४॥
|शता इत्यर्थः, तया भागे हृते यल्लब्धं तान्यकुलानि चकारादमुलांशाश्च पौरुष्याः क्षयवृद्ध्या ज्ञातव्यानि, दक्षिणायने |पदध्रुवराशेरुपरि वृद्धौ ज्ञातव्यानि, उत्तरायणे पदध्रुवराशेः क्षये ज्ञातव्यानीत्यर्थः, अथैवंभूतस्य गुणकारस्य भागहारस्य | वा कथमुत्पत्तिः ?, उच्यते, यदि षडशीत्यधिकेन तिथिशतेन चतुर्विशतिरङ्गलानि क्षये वृद्धौ वा प्राप्यन्ते, तत एकस्यां तिथौ का वृद्धिः क्षयो वा', राशित्रयस्थापना १८६॥ २४।१ अत्रान्त्येन राशिना एकलक्षणेन मध्यमो राशिश्चतुर्विंशतिरूपो गुण्यते, जातः स तावानेव, 'एकेन गुणितं तदेव भवतीति वचनात्, तत आद्येन राशिना पडशीत्यधिकशतरूपेण भागो हियते, तत्रोपरितनराशेः स्तोकत्वाद्भागो न लभ्यते, ततः छेद्यच्छेदकराश्योः षट्रेनापवर्तना, जात उपरितनो राशिश्चतुष्करूपोऽधस्तन एकत्रिंशत् , लब्धमेकस्यां तिथौ चत्वार एकत्रिंशभागाः क्षये वृद्धौ वेति चतुष्को गुणकार उक्त एकत्रिंशद् भागहार इति, इह यल्लब्धं तान्यङ्गलानि क्षये वृद्धौ वा ज्ञातव्यानि इत्युक्तं, तत्र कस्मिन्नयने कियत्प्रमाणं ध्रुवराशेरुपरि वृद्धौ कस्मिन् वा अयने किंप्रमाणं ध्रुवराशेः क्षये इत्येतन्निरूपणार्थमाह-"दक्खिणबुड्ढी'इत्यादि, दक्षिणायने द्विपदात्-पदद्वयस्योपरि अङ्गुलानां वृद्धिर्ज्ञातव्या, उत्तरायणे चतुर्थ्यः पादेभ्यः सकाशादङ्गुलानां हानिः, तत्र युग
॥१३४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org