________________
सूर्यप्रज्ञ
तिवृत्तिः (मल.) ॥१३३॥
सूर्योऽनु-प्रतिदिवस परावर्त्तते, किमुक्तं भवति ?-श्रावणमासे प्रथमादहोरात्रादारभ्य प्रतिदिनमन्यान्यमण्डलसङ्कान्त्या प्राभते तथा कथञ्चनापि परावर्त्तते यथा तस्य श्रावणमासस्य पर्यन्ते चतुरङ्गुलाधिका द्विपदा पौरुषी भवति, तदेवाह-तस्स ण- ९प्राभृतमित्यादि, तस्य श्रावणमासस्य चरमे दिवसे द्वे पदे चत्वारि चाङ्गुलानि पौरुषी भवति, 'ता वासाण'मित्यादि, ता इति प्राभृते पूर्ववत् वर्षाणां-वर्षाकालस्य चतुर्मासप्रमाणस्य द्वितीयं भाद्रपदलक्षणं मासं कति नक्षत्राणि नयन्ति ?, अस्य वाक्यस्य नक्षत्रताराभावार्थः प्राग्वद्भावनीयः, भगवानाह-'ता'इत्यादि, ता इति पूर्ववत् , चत्वारि नक्षत्राणि नयन्ति, तद्यथा-धनिष्ठा शत
ग्रं सू ४२
१० प्रा० भिषक् पूर्वप्रोष्ठपदा उत्तरप्रोष्ठपदा च, तत्र धनिष्ठा तस्मिन् भाद्रपदे मासे प्रथमान् चतुर्दश अहोरात्रान् स्वयमस्तंगमने-1X
१० प्रा० नाहोरात्रपरिसमापकतया नयति, तदनन्तरं शतभिषक्नक्षत्रं सप्ताहोरात्रान् ततः परमष्टावहोरात्रान् पूर्वप्रोष्ठपदा तदन
मासनेतृ० न्तरमेकमहोरात्रमुत्तरप्रोष्ठपदा, एवमेनं भाद्रपदं मासं चत्वारि नक्षत्राणि नयन्ति, 'तस्सि च ण'मित्यादि, तस्मिंश्च
नक्षत्रं णमिति वाक्यालङ्कारे, मासे भाद्रपदे अष्टाङ्गलपौरुष्या-अष्टाङ्गलाधिकपौरुष्या छायया सूर्योऽनु-प्रतिदिवसं परावर्त्तते, सू ४३ अत्राप्ययं भावार्थः-भाद्रपदे मासे प्रथमादहोरात्रादारभ्य प्रतिदिवसमन्यान्यमण्डलसङ्क्रान्त्या तथा कथमपि परावर्त्तते यथा तस्य भाद्रपदस्य मासस्यान्ते अष्टाङ्गलिका पौरुषी भवति, एतदेवाह-'तस्स ण'मित्यादि सुगम, एवं शेषमासगतान्यपि सूत्राणि भावनीयानि, नवरं 'लेहत्थाई तिन्नि पयाईन्ति रेखा-पादपर्यन्तवर्तिनी सीमा तत्स्थानि त्रीणि पदानि |
॥१३॥ पौरुषी भवति, किमुक्तं भवति ?-परिपूर्णानि त्रीणि पदानि पौरुषी भवति, एषा चतुरङ्गला प्रतिमासं वृद्धिस्तावदवसेया यावत्पौषो मासः, तदनन्तरं प्रतिमासं चतुरङ्गाला हानिर्वक्तव्या, सा च तावत् यावदाषाढो मासः, तेनाषाढपर्यन्ते द्विपदा
CN
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org