SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ बरसेदिवसे दो पादाणि य चत्तारि अंगुलाणि पोरिसी भवति, ता गिम्हाणं चउत्थं मासं कति पकवत्ता गति ?, ता तिण्णि णक्खत्ता ऐति, तं०-मूलो पुवासाढा उत्तरासाढा, मूलो चोइस अहोरत्तेणेलि, पुष्वासादा पण्णरस अहोरत्ते णेति, उत्तरासाढा एगं अहोरत्तं णेइ, तंसि च णं मासंसि वहाए समचउरंससंठिताए णग्गोधपरिमंडलाए सकायमणुरंगिणीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे लेहवाई दो पदाई पोरिसीए भवति (सूत्रं ४३) दसमस्स पाहुडस्स दसमं पाहुडपाहुडं समत्तं ॥ १०-१० ॥ | 'ता कहं ते नेता आहियत्ति वएन्जा''ता' इति पूर्ववत् , कथं-केन प्रकारेण भगवंस्ते-त्वया स्वयमस्तंगमनेनाहोरात्रपरिसमापको नक्षत्ररूपो नेता आख्यात इति वदेत्!, एतदेव प्रतिमासं पिपृच्छिषुराह-ता वासाण'मित्यादि, ता इति पूर्ववत् वर्षाणां-वर्षाकालस्य चतुर्मासप्रमाणस्य प्रथम मासं श्रावणलक्षणं कति नक्षत्राणि स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया नयन्ति-गमयन्ति ?, भगवानाह-'ता चत्तारी'त्यादि, ता इति पूर्ववत्, चत्वारि नक्षत्राणि स्वयमस्तगमनेनाहोरात्रपरिसमापकतया क्रमेण नयन्ति, तद्यथा-उत्तरासाढा अभिजित् श्रवणो धनिष्ठा च, तत्रोत्तराषाढा प्रथमान् चतुर्दश अहोरात्रान् स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया नयति, तदनन्तरमभिजिन्नक्षत्रं सप्ताहोरात्रान्नयति, ततः परं श्रवणनक्षत्रमष्टौ अहोरात्रान्नयति, एवं च सर्वसङ्कलनया श्रावणमासस्यैकोनत्रिंशदहोरात्रा गताः, ततः परं श्रावणमासस्य सम्बन्धिनं चरममेकमहोरात्रं धनिष्ठानक्षत्रं स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया नयति, एवं चत्वारि नक्षत्राणि श्रावणं मासं नयन्ति, 'तस्सि च ण'मित्यादि, तस्मिंश्च श्रावणे मासे चतुरङ्गुलपौरुष्या-चतुरङ्गुलाधिकपारुष्या छायया कलवार Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy