SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ * * * | 'ता कहं ते'इत्यादि, ता इति पूर्ववत् , कथं ?-केन प्रकारेण भगवन् ! त्वया चन्द्रयोगमधिकृत्य पौर्णमास्यमावास्यानां है सन्निपात आख्यात इति वदेत् ?, एवमुक्ते भगवानाह–ता जया णमित्यादि, इह व्यवहारनयमतेन यस्मिन्नक्षत्रे पौर्ण-है मासी भवति तत आरभ्याक्तिने पञ्चदशे चतुर्दशे वा नक्षत्रे नियमतोऽमावास्या, ततो यदा श्राविष्ठी-श्रविष्ठानक्षत्रयक्ता पौर्णमासी भवति तदा तस्यामक्तिनी अमावास्या माघी-मघानक्षत्रयुक्ता भवति, मघानक्षत्रादारभ्य श्रविष्ठानक्षत्रस्य पञ्चदशत्वात्, एतच्च श्रावणमासमधिकृत्य भावनीयं, यदा तु णमिति वाक्यालङ्कारे माघी-मघानक्षत्रयुक्ता पौर्णमासी भवति तदा पाश्चात्या अमावास्या श्राविष्ठी-श्रविष्ठायुक्ता भवति, मघात आरभ्य पूर्व श्रविष्ठानक्षत्रस्य पञ्चदशत्वात् , एतच्च माघमासमधिकृत्य वेदितव्यं, तथा 'ता जया ण'मित्यादि, तत्र यदा णमिति वाक्यालङ्कारे प्रोष्ठपदी-उत्तरभद्रपदायुक्ता पौर्णमासी भवति तदा णमिति प्राग्वत् पाश्चात्या अमावास्या फाल्गुनी-उत्तरफाल्गुनीनक्षत्रयुक्ता भवति, उत्तरभद्रपदात आरभ्य पूर्वमुत्तरफाल्गुनीनक्षत्रस्य पञ्चदशत्वात् , यत्त्वपान्तराले अभिजिन्नक्षत्रं तत्स्तोककालत्वात् प्रायो न व्यवहारपथमवतरति, तथा च समवायाङ्गसूत्रम्-'जंबुद्दीवे दीवे अभिईवजेहिं सत्तावीसाए नक्खत्तेहिं संववहारो वट्टईत्ति, ततः सदपि तन्न गण्यते इति पञ्चदशमेवोत्तरभद्रपदात आरभ्य पूर्वमुत्तरफाल्गुनीनक्षत्रमिति, एतच्च भाद्रपदमासमधिकृत्योक्तमवसेयं, जयाण'मित्यादि, यदाच फाल्गुनी-उत्तरफाल्गुनीनक्षत्रयुक्ता पौर्णमासी भवति तदापाश्चात्या अमावास्या प्रौष्ठपदी-उत्तरभद्रपदोपेता भवति, उत्तरफाल्गुन्या आरभ्य पूर्वमुत्तरभद्रपदानक्षत्रस्य चतुर्दशत्वात्, इदं च फाल्गुनमासमधिकृत्योक्तं, 'जया ण'मित्यादि, यदा च आश्वयुजी-अश्वयुग्नक्षत्रोपेता पौर्णमासी भवति तदा पाश्चात्या * SAAPALABAISAITHIRUPATHUGA * * * Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy