________________
B
5
अस्सिणी यत्ति अत्राप्येवं सूत्रालापकः-'ता चित्तिन्नं अमावासं कइ नक्खत्ता जोएंति ?, ता तिण्णि नक्खत्ता जोएंति, तंजहा-उत्तरभद्दवया रेवई अस्सिणी य एतदपि व्यवहारतो, निश्चयतः पुनरमूनि त्रीणि नक्षत्राणि चैत्रीममावास्यां परिसमापयन्ति, तद्यथा-पूर्वभद्रपदा उत्तरभद्रपदा रेवती च, तत्र प्रथमां चैत्रीममावास्यामुत्तरभद्रपदानक्षत्रं सप्तविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य षट्त्रिंशति द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य दशसु सप्तषष्टिभागेषु गतेषु ३७ । ३६।१०, द्वितीयां चैत्रीममावास्यामुत्तरभद्रपदानक्षत्रमेकादशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य नवसु द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रयोविंशतौ सप्तषष्टिभागेषु गतेषु ११।९।२३, तृतीयां चैत्रीममावास्यां रेवतीनक्षत्रं पञ्चसु मुहूर्तेषु एकस्य च मुहूर्तस्यैकोनपञ्चाशति द्वापष्टिभागेष्वेकस्य च द्वापष्टिभागस्य सप्तत्रिंशति सप्तषष्टिभागेष्वतिक्रान्तेषु ५। ४२ । ३७, चतुर्थी चैत्रीममावास्यामुत्तरभद्रपदानक्षत्रं त्रयोविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य द्वाविंशतौ द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चाशति सप्तषष्टिभागेषु गतेषु २३ । २२ । ५०, पञ्चमी चैत्रीममावास्यां पूर्वभद्रपदानक्षत्रं सप्तविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य सप्तपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य त्रिषष्टौ सप्तषष्टिभागेष्वतिक्रान्तेषु २७ । ५७ । ६३ परिसमापयति । 'वइसाही भरणी कत्तिया यत्ति, अत्राप्येवं सूत्रपाठः-'ता वइसाहिणं अमावासं कइ नक्खत्ता | जोएन्ति ?, ता दोणि नक्खत्ता जोएंति, तंजहा-'भरणी कत्तिया यत्ति, एतदपि व्यवहारतो, निश्चयतः पुनस्त्रीणि
नक्षत्राणि वैशाखीममावास्यां परिसमापयन्ति, तानि चामूनि-तद्यथा-रेवती अश्विनी भरणी च, तत्र प्रथमां वैशाखीहै ममावास्यामश्विनीनक्षत्रमष्टाविंशता मुहूर्तेष्वेकस्य च मुहूर्तस्य एकचत्वारिंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्यै
Jain Education International
For Personal & Private Use Only
www.janelibrary.org