________________
सूर्यप्रज्ञ - शिवृत्तिः ( मल० )
॥१२५॥
गतेषु २३ । ३९ । ३५, चतुर्थी माघीममावास्यां अभिजिन्नक्षत्रं षट्सु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य सप्तत्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशति सप्तषष्टिभागेषु व्यतिक्रान्तेषु ६ । ३७ । ४७, पञ्चर्मी माघीममावास्यामुत्तराषाढानक्षत्रं पञ्चविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य दशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षष्टौ सप्तषष्टिभागेषु गतेषु २५ । १० । ६० परिसमापयति । 'फग्गुणीं दोन्नि तंजहा -सयभिसया पुवभद्दवय'त्ति, अत्राप्येवं सूत्रालापक:'ता फग्गुणीं णं अमावासं कइ नक्खत्ता जोएंति ?, ता दोण्णि नक्खत्ता जोएंति, तंजहा - सय भिसया पुवभद्दवया य,, एतदपि व्यवहारतो, निश्चयतः पुनरमूनि त्रीणि नक्षत्राणि फाल्गुनीममावास्यां परिसमापयन्ति, तद्यथा धनिष्ठा शतभिषक् पूर्वभद्रपदा च तत्र प्रथमां फाल्गुनीममावास्यां पूर्वभद्रपदा नक्षत्रं षट्सु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्यैकत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य नवसु सप्तषष्टिभागेषु गतेषु । ६ । ३१ ।९, द्वितीयां फाल्गुनीममावास्यां धनिष्ठानक्षत्रं विंशतौ मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य चतुर्षु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य द्वाविंशतौ सप्तषष्टिभागेषु व्यतिक्रान्तेषु २० । ४ । २२, तृतीया फाल्गुनीममावास्यां पूर्वाषाढानक्षत्रं चतुर्दशसु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य चतुश्चत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षट्त्रिंशति सप्तषष्टिभागेषु गतेषु १४ । ४४ । ३६, चतुर्थी फाल्गुनीममावास्यां शतभिषक् नक्षत्रं त्रिषु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य सप्तदशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य एकोनपञ्चाशति सप्तषष्टिभागेषु गतेषु ३ । १७ । ४९, पञ्चमीं फाल्गुनीममावास्यां धनिष्ठानक्षत्रं षट्सु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य द्विपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य सत्केषु द्वाषष्टौ सप्तषष्टिभागेषु गतेषु ६ । ५२ । ६२ । परिणमयति । 'चित्तिं तिन्नि, तंजहा - उत्तरभद्दवया रेवती
Jain Education International
For Personal & Private Use Only
१० प्राभृते ६ प्राभृतप्राभृतं कुलोपकुला धि सू ३९
॥ १२५ ॥
www.jainelibrary.org