SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ शसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य एकोनचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य एकोनत्रिंशति सप्तषष्टिभागेषु १७ । ३९ । २९ । गतेषु, चतुर्थीमाश्वयुजीममावास्यां हस्तनक्षत्रं द्वादशसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य सप्तदशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिचत्वारिंशति सप्तषष्टिभागेषु १२ ६२ । ६ । गतेषु पञ्चमीमाश्वयुजीममावास्यां उत्तरफाल्गुनी नक्षत्रं त्रिंशति मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य द्विपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुःपञ्चाशति सप्तषष्टिभागेषु ३० । ५२ । ५४ गतेषु परिसमापयति, 'कत्तियण्णं साई विसाहा य'त्ति, अत्राप्येवं सूत्रपाठः - 'ता कत्ति - यष्णं अमावासं कइ नक्खत्ता जोएंति ?, ता दोण्णि नक्खत्ता जोइंति, तंजहा- 'साईविसाहा य'त्ति, एतदपि व्यवहा रनयमते, निश्चयतः पुनस्त्रीणि नक्षत्राणि कार्त्तिकीममावास्यां परिसमापयन्ति, तद्यथा - स्वातिर्विशाखा चित्रा च तत्र प्रथमां कार्त्तिकीममावास्यां विशाखानक्षत्रं षोडशसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य षटूत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुर्षु सप्तषष्टिभागेषु १६ । ३६ । ४ गतेषु, द्वितीयां कार्त्तिकीममावास्यां स्वातिनक्षत्रं पश्ञ्चसु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य द्वाविंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तदशसु सप्तषष्टिभागेषु ५। २२ । १७ गतेषु, तृतीयां कार्त्तिकीममावास्यां चित्रा नक्षत्रमष्टसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य चतुश्चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिंशति सप्तषष्टिभागेषु ८ । ४४ । ३० गतेषु, चतुर्थी कार्तिकीममावास्यां विशाखानक्षत्रं त्रयोदशसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य द्वाविंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुश्चत्वारिंशति सप्तषष्टिभागेषु १३ । २२ । ४४ गतेषु पञ्चमीं कार्त्तिकीममावास्यां चित्रानक्षत्रं एकविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य सप्तपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy