SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ SHARE समाप्तिमुपयाति ?, तत्र पूर्वोदितस्वरूपोऽवधार्यराशिः षट्षष्टिर्मुहूर्त्ता एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागा एकस्य चद्वापष्टिभागस्य एकः सप्तषष्टिभाग इति प्रमाणो ध्रियते, धृत्वा चैकेन गुण्यते, प्रथमाया अमावास्यायाः पृष्टत्वात् , एकेन गुणितं तदेव भवतीति राशिस्तावानेव जातः, ततस्तस्माद् द्वाविंशतिर्मुहूर्ता एकस्य च मुहूर्तस्य षट्चत्वारिंशद् द्वाषष्टिभागा इत्येवंपरिमाणं पुनर्वसुशोधनकं शोध्यते, तत्र षट्षष्टेर्मुहूर्तेभ्यो द्वाविंशतिर्मुहूर्ताः शुद्धाः, स्थिताः पश्चाच्चतुश्चत्वारिंशत् ४४, तेभ्य एक मुहूर्तमपकृष्य तस्या द्वापष्टिर्भागाः क्रियन्ते, कृत्वा च ते द्वाषष्टिभागराशिंमध्ये प्रक्षिप्यन्ते, जाताः सप्तषष्टिः, तेभ्यः षट्चत्वारिंशत् शुद्धाः, शेषास्तिष्ठन्त्येकविंशतिः, त्रिचत्वारिंशतो मुहूर्तेभ्यस्त्रिंशता मुहूर्तेः पुष्यः शुद्धः, स्थिताः पश्चात् त्रयोदश मुहर्ताः, अश्लेषानक्षत्रं च द्विक्षेत्रमिति पञ्चदश मुहूत्तप्रमाणं, तत इदमागतं-अश्लेषानक्षत्रमेकस्मिन् मुहूर्ते एकस्य च मुहूर्तस्य चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तपष्टिधाछिन्नस्य षट्षष्टिसङ्ख्येषु । | भागेषु शेषेषु प्रथमाऽमावास्या समाप्तिमुपगच्छति, तथा च वक्ष्यति-'ता एएसिं पंचण्डं संवच्छराणं पढमं अमावासं चंदे केणं नक्खत्तेणं जोएइ, ता असिलेसाहि, असिलेसाणं एक्को मुहुत्तो चत्तालीसं बावठिभागा मुहुत्तस्स बावहिभागं च सत्तहिहा छेत्ता छावही चुण्णिआभागा सेसा'इति, यदा तु द्वितीयामावास्या चिन्त्यते तदा सा युगस्यादित आरभ्य त्रयो दशीति स ध्रुवराशिः ६६ ।। त्रयोदशभिर्गुण्यते, जातानि मुहूर्तानामष्टौ शतान्यष्टापञ्चाशदधिकानि ८५८ एकस्य &च मुहूर्तस्य पञ्चषष्टिषष्टिभागा ६५ एकस्य च द्वाषष्टिभागस्य सत्कास्त्रयोदश सप्तषष्टिभागाः १३, तत्र 'चत्तारि य बायाला अह सोज्झा उत्तरासाढा' इति वचनात् चतुर्भिर्द्विचत्वारिंशदधिकैर्मुहूर्तशतैः षट्चत्वारिंशता च द्वाषष्टिभाग Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy