________________
सूर्यज्ञशिवृत्तिः ( मल० )
॥१२१॥
ण्णिमा जुत्तत्ति वत्तवं सिआ' इत्यादि, तावद्वक्तव्यं यावदाषाढी पौर्णमासीसूत्रपर्यन्तः, तथा चाह - 'जाव आसाढीपुन्निमा जुत्तत्तिवत्तवं सिया' । तदेवं पौर्णमासीवक्तव्यतोक्ता, सम्प्रति अमावास्यावक्तव्यतामाह - 'दुवालसे' त्यादि, द्वादश अमावास्याः प्रज्ञप्ताः, तद्यथा - श्राविष्ठी प्रौष्ठपदी इत्यादि, तत्र मासपरिसमापकेन श्रविष्ठानक्षत्रेणोपलक्षितो यः श्रावणो मासः सोऽप्युपचारात् श्राविष्ठा तत्र भवा श्राविष्ठी, किमुक्तं भवति ? - श्रविष्ठानक्षत्रपरिसमाप्यमानश्रावणमास भाविनीति, प्रोष्ठपदी प्रोष्ठपदा नक्षत्र परिसमाप्यमानभाद्रपद मासभाविनी, एवं सर्वत्रापि वाक्यार्थो भावनीयः, 'ता साविट्टिण्ण' मित्यादि, ता इति पूर्ववत् श्राविष्ठीममावास्यां कति नक्षत्राणि युञ्जन्ति ? - कति नक्षत्राणि यथायोगं चन्द्रेण सह संयुज्य श्राविष्ठीं अमावास्यां परिसमापयन्ति, भगवानाह - 'ता दोण्णी' त्यादि, ता इति पूर्वत्, द्वे नक्षत्रे युङ्क्तः, तद्यथा - अश्लेषा मघा च, इह व्यवहारनयमते यस्मिन्नक्षत्रे पौर्णमासी भवति तत आरभ्यावृक्तिने पञ्चदशे नक्षत्रे अमावास्या भवति, यस्मिंश्च नक्षत्रे अमावास्या तत आरभ्य परतः पञ्चदशे नक्षत्रे पौर्णमासी, तत्र श्राविष्ठी पौर्णमासी किल श्रवणे धनिष्ठायां वोक्ता ततोऽमावास्यायामप्यस्यां श्राविष्ठ्यां अश्लेषा मघाश्वोक्ताः, लोके च तिथिगणितानुसारतो गतायामध्यमावास्यायां वर्त्तमानायामपि च प्रतिपदि यस्मिन्नहोरात्रे प्रथमतोऽमावास्याऽभूत् स सकलोऽप्यहोरात्रो अमावास्येति व्यवहियते, ततो मघा नक्षत्रमप्येवं व्यवहारतोऽमावास्यायां प्राप्यत इति न कश्चिद्विरोधः, परमार्थतः पुनरिमाममावास्यां श्राविष्ठीमिमानि त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा - पुनर्वसुः पुष्योऽश्लेषा च, तथाहि - अमावास्याचन्द्रयोगपरिज्ञानार्थं करणं प्रागेवोक्तं, तत्र तद्भावना क्रियते कोऽपि पृच्छति - युगस्यादौ प्रथमा श्राविश्यमावास्या केन चन्द्रयुक्तेन नक्षत्रेणोपेता सती
Jain Education International
For Personal & Private Use Only
१० प्राभृते
६ प्राभृतः प्राभृतं कुलोपकुला धि सू ३९
॥१२१॥
www.jainelibrary.org