________________
ॐॐॐॐॐॐॐ
- 'ता साविट्टिण्ण'मित्यादि, ता इति पूर्ववत्, श्राविष्ठी पौर्णमासी किं कुलं युनक्ति उपकुलं युनक्ति कुलोपकुलं वा युनक्ति ?, भगवानाह-'ता कुलं वा' इत्यादि, कुलं वा युनक्ति,वाशब्दः समुच्चये, ततः कुलमपि युनक्तीत्यर्थः, एवं उपकुलमपि कुलोपकुलमपि, तत्र कुलं युञ्जन् धनिष्ठानक्षत्रं युनक्ति, तस्यैव कुलं (लतया) प्रसिद्धस्य सतः श्राविष्ट्यां पौर्णमास्यां भावात् , उपकुलं युञ्जन् श्रवणनक्षत्रं युनक्ति, कुलोपकुलं युञ्जन् अभिजिन्नक्षत्रं युनक्ति, तद्धि तृतीयायां श्राविष्ठयां पौर्णमास्यां द्वादशसु मुहूर्तेषु किश्चित्समधिकेषु शेषेषु चन्द्रेण सह योगमुपैति, ततः श्रवणेन सह सहचरत्वात् स्वयमपि | तस्याः पौर्णमास्याः पर्यन्तवर्त्तित्वात् तदपि तां परिसमापयतीति विवक्षितत्वाद् युनक्तीत्युक्तं, सम्प्रति उपसंहारमाह'साविहिन्न'मित्यादि, यत एवं त्रिभिरपि कुलादिभिः श्राविष्ठ्याः पौर्णमास्या योजनाऽस्ति ततः श्राविष्ठी पौर्णमासी कुलं वा युनक्ति उपकुलं वा युनक्ति कुलोपकुलं वा युनक्तीति वक्तव्यं स्यात्-इति स्वशिष्येभ्यः प्रतिपादनं कुर्यात् , यदिवा कुलेन वा युक्ता सती श्राविष्ठी पौर्णमासी उपकुलेन वा युक्ता कुलोपकुलेन वा युक्ता युक्तेति वक्तव्यं स्यात् , एवं शेषमपि सूत्रं निगमनीयं, यावत् 'एवं नेयवाओ'इत्यादि, एवमुक्केन प्रकारेण शेषा अपि पौर्णमास्यो नेतव्याः-पाठक्रमेण वक्तव्याः, नवरं पौषीं पौर्णमासी ज्येष्ठामूली च पौर्णमासी कुलोपकुलमपि युनक्ति, अवशेषासु च पौर्णमासी कुलोपकुलं नास्तीति परिभाव्य वक्तव्याः, ताश्चैवम्-'ता कत्तियण्णं पुन्निमासिणी किं कुलं वा जोएइ उवकुलं वा जोएइ ?, ता कुलंपि जोएइ उवकुलंपि जोएइ, नो लभेइ कुलोवकुलं, कुलं जोएमाणे कत्तिआणक्खत्ते जोएइ, उवकुलं जोएमाणे भरणीनक्खत्ते जोएइ, ता कत्तिअन्नं पुण्णिमं कुलं वा जोएइ उवकुलं वा जोएइ, कुलेण वा जुत्ता उवकुलेण वा जुत्ता कत्तियपु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org