SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ एकस्य च द्वाषष्टिभागस्य सप्तदशसु सप्तषष्टिभागेषु शेषेषु पञ्चमी चैत्रीं पौर्णमासीं हस्तनक्षत्रं चतुर्विंशतौ मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य विंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुर्षु सप्तषष्टिभागेषु शेषेषु परिणमयति । 'ता वहसाहिन्न'मित्यादि, ता इति पूर्ववत्, वैशाखीं णमिति वाक्यालङ्कारे पौर्णमासीं कति नक्षत्राणि युञ्जन्ति १, भगवानाह - 'ता दोण्णी'त्यादि, ता इति प्राग्वत्, , द्वे नक्षत्रे युङ्क्तः, तद्यथा - स्वातिः विशाखा च चशब्दादनुराधा च इदं हि अनुराधा नक्षत्रं | विशाखातः परं, विशाखा चास्यां पौर्णमास्यां प्रधाना, ततः परस्यामेव पौर्णमास्यां तत्साक्षादुपात्तं नेहेति, तत्र प्रथमां वैशाखी पौर्णमासीं विशाखा नक्षत्रमष्टसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य षटूत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षट्पञ्चाशति सप्तषष्टिभागेषु शेषेषु, द्वितीयां वैशाखीं पौर्णमासीं विशाखा नक्षत्रं पञ्चविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्यैकस्मिन् द्वाषष्टिभागे एकस्य च द्वाषष्टिभागस्य त्रिचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयां वैशाखीं पौर्णमासीं अनुराधानक्षत्रं पञ्चविंशतौ मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य त्रयोविंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्यैकोनत्रिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी वैशाखी पौर्णमासीं विशाखानक्षत्रमेकविंशती मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य पश्चाशति द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य षोडशसु सप्तषष्टिभागेषु शेषेषु पञ्चमी वैशाखीं पौर्णमासीं स्वातिनक्षत्रं त्रिषु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य पञ्चदशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिषु सप्तषष्टिभागेषु शेषेषु परिणमयति । 'ता जेट्ठामूलिंण' मित्यादि, ता इति पूर्ववत्, ज्येष्ठामौली णमिति वाक्यभूषणे पौर्णमासीं कति नक्षत्राणि युञ्जन्ति १, भगवानाह - 'ता' इत्यादि, ता इति पूर्वत्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा - अनुराधा ज्येष्ठा मूलं च, तत्र प्रथमां ज्येष्ठामौलीं पौर्णमासीं मूलनक्षत्रं सप्तद बत्, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy