________________
सूर्यप्रज्ञशिवृत्तिः ( मल० )
॥११८॥
ता इति प्राग्वत्, द्वे नक्षत्रे, तद्यथा - पूर्वफाल्गुनी उत्तरफाल्गुनी च तत्र प्रथमां फाल्गुनी पौर्णमासीमुत्तराफाल्गुनीनक्षत्रं विंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य षट्चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याष्टापञ्चाशति सप्तषष्टिभागेषु शेषेषु, द्वितीयां फाल्गुनीं पौर्णमासीं पूर्वफाल्गुनीनक्षत्रं द्वयोर्मुहूर्त्तयोरेकस्य च मुहूर्त्तस्य एकादशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयां फाल्गुनीं पौर्णमासीमुत्तराफाल्गुनी नक्षत्रं सप्तसु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य त्रयस्त्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य एकत्रिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी फाल्गुनीं पौर्णमासीमुत्तरफाल्गुनी नक्षत्रं त्रयस्त्रिंशति मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य षष्टौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्याष्टादशसु सप्तषष्टिभागेषु शेषेषु पञ्चमीं फाल्गुनीं पौर्णमासीं पूर्वफाल्गुनीनक्षत्रं पञ्चदशसु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य पञ्चविंशतौ द्वाषष्टिसङ्खयेषु भागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चसु सप्तषष्टिभागेषु शेषेषु परिसमापयति । 'ता चित्तिण्ण' मित्यादि, ता इति पूर्ववत्, चैत्री पौर्णमासीं कति नक्षत्राणि युञ्जन्ति १, भगवानाह - 'ता' इत्यादि, द्वे नक्षत्रे युङ्क्तः, तद्यथा - हस्तः चित्रा च तत्र प्रथमां चैत्रीं पौर्णमासीं चित्रानक्षत्रं चतुर्दशसु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य एकचत्वारिंशति द्वाषष्टिभाने| ष्वेकस्य च द्वाषष्टिभागस्य सप्तपञ्चाशति सप्तषष्टिभागेषु शेषेषु, द्वितीयां चैत्री पौर्णमासीं हस्तनक्षत्रमेकादशसु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य षट्सु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुश्चत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयां चैत्री पौर्णमासी चित्रानक्षत्रमेकस्मिन् मुहूर्ते एकस्य च मुहूर्त्तस्य अष्टाविंशतौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चत्वारिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी चैत्री पौर्णमासीं चित्रानक्षत्रं सप्तविंशतौ मुहूर्त्तेषु पकस्य च मुहूर्त्तस्य पञ्चपञ्चाशति द्वाषष्टिभागेषु
Jain Education International
For Personal & Private Use Only
१० प्राभृते
६ प्राभृतप्राभृतं पूर्णिमादि
नक्षत्रं
सू ३८
॥११८॥
www.jainelibrary.org