SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ पुष्यनक्षत्रमेकोनविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य त्रिचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी पौष पौर्णमासीं पुनर्वसुनक्षत्रं षोडशसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य अष्टसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य विंशतौ सप्तषष्टिभागेषु शेषेषु पञ्चमी पौषीं पौर्णमासीं पुनर्वसुनक्षत्रं द्विचत्वारिंशति मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य पञ्चत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तसु सप्तषष्ठिभागेषु शेषेषु परिसमाप्तिं नयति । 'ता माहीपण' मित्यादि, ता इति पूर्ववत्, माध णमिति वाक्यालङ्कारे पौर्णमासी कति नक्षत्राणि युञ्जन्ति १, भगवानाह - 'ता दोण्णीत्यादि, द्वे नक्षत्रे युङ्कः, तद्यथा-अश्लेषा मघा च, चशब्दात्काचिन्माघ पौर्णमासी पूर्वफाल्गुनीनक्षत्रं काञ्चित्पुष्यनक्षत्रं च तद्यथाप्रथमां माधी पौर्णमासी मघानक्षत्रमेकादशसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य एकपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य एकोनषष्टौ सप्तषष्टिभागेषु शेषेषु, द्वितीयां माघीं पौर्णमासीमश्लेषानक्षत्रमष्टसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य षोडशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयां माधीं पौर्णमासीं पूर्वफाल्गुनीनक्षत्रमष्टाविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य अष्टात्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य द्वात्रिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी माघ पौर्णमासीं मघानक्षत्रं पञ्चविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य त्रिषु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्यैकोनविंशतौ सप्तषष्टिभागेषु शेषेषु पञ्चमीं माधीं पौर्णमासीं पुष्यनक्षत्रं षट्सु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य त्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षट्सु सप्तषष्टिभागेषु शेषेषु परिसमापयति, 'ता फग्गुणीपण' मित्यादि, ता इति पूर्ववत् फाल्गुनीं णमिति वाक्यालङ्कारे पौर्णमासी कति नक्षत्राणि युञ्जन्ति ?, भगवानाह - 'ता दोणी 'त्यादि, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy