________________
सूर्यज्ञतिवृत्तिः ( मल० )
॥११९॥
शसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्यैकत्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चपञ्चाशति सप्तषष्टिभागेषु शेषेषु, द्वितीयां ज्येष्ठामौली पौर्णमासीं ज्येष्ठानक्षत्रं त्रयोदशसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य अष्टापञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाष|ष्टिभागस्य द्विचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयां ज्येष्ठामौलीं पौर्णमासीं मूलनक्षत्रं चतुर्षु मुहूर्त्तेष्वेकस्य च मुहूर्तस्याष्टादशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याष्टाविंशतौ सप्तषष्टिभागेषु शेषेषु, चतुर्थी ज्येष्ठामौलीं पौर्णमासीं ज्येष्ठानत्रमेकस्य च मुहूर्त्तस्य पञ्चचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चदशसु सप्तषष्टिभागेषु शेषेषु पञ्चमीं ज्येष्ठामूली पौर्णमासीं अनुराधानक्षत्रं द्वादशसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य दशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य द्वयोः सप्तषष्टिभागयोः परिसमाप्तिमुपनयति । 'आसादिनमित्यादि, ता इति पूर्ववत्, आषाढी णमिति वाक्यालङ्कारे पौर्णमासी कति नक्षत्राणि युञ्जन्ति ?, भगवानाह - 'ता दो' इत्यादि, ता इति पूर्ववत्, द्वे नक्षत्रे युङ्कः, तद्यथा - पूर्वाषाढा उत्तराषाढा च तत्र प्रथमामाषाढी पौर्णमासीमुत्तराषाढा नक्षत्रं षड्विंशतौ मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य षड्विंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुष्पञ्चाशति सप्तषष्टिभागेषु शेषेषु, द्वितीयामाषाढी पौर्णमासीं पूर्वाषाढा नक्षत्रं सप्तसु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य त्रिपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, | तृतीयामाषाढी पौर्णमासीं उत्तराषाढा नक्षत्रं त्रयोदशसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य त्रयोदशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तविंशतौ सप्तषष्टिभागेषु शेषेषु, चतुर्थीमाषाढी पौर्णमासीमुत्तरा पाढानक्षत्र मे कोन चत्वारिंशति मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुर्द्दशसु सप्तषष्टिभागेषु शेषेषु परिसमापयति,
Jain Education International
For Personal & Private Use Only
१० प्राभृते ६ प्राभृतप्राभृतं पूर्णिमादि
नक्षत्रं
सू ३८
॥ ११९ ॥
www.jainelibrary.org