SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञतिवृत्तिः ( मल० ) ॥११६॥ वत्, त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा - शतभिषक् पूर्वप्रोष्ठपदा उत्तरप्रोष्ठपदा च तत्र प्रथमां प्रोष्ठपदीं पौर्णमासीमुत्तरभद्रपद नक्षत्रं सप्तविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य चतुर्द्दशसु द्वाषष्टिभागेषु चतुःषष्टौ सप्तषष्टिभागेषु शेषेषु परिसमाप्तिं नयति, द्वितीयां प्रोष्ठपदीं पौर्णमासीं पूर्वभद्रपदानक्षत्रमष्टसु मुहूर्त्तेषु शेषेष्वेकस्य च मुहूर्त्तस्यैकचत्वारिंशति द्वाप - ष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकपञ्चाशति सप्तषष्टिभागेषु शेषेषु परिणमयति, तृतीयां प्रौष्ठपदीं पौर्णमासीं शतभिषक् पञ्चसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य षट्सु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याष्टाविंशतौ सप्तषष्टिभागेषु शेषेषु, चतुर्थी प्रोष्ठपदीं पौर्णमासीं उत्तरभद्रपदानक्षत्रं चत्वारिंशति मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्यैकचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुर्विंशतौ सप्तषष्टिभागेषु शेषेषु पञ्चमीं प्रोष्ठपदीं पौर्णमासीं पूर्व भद्रपदानक्षत्रमेकविंशतौ मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य पञ्चपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकादशसु सप्तषष्टिभागेषु शेषेषु परिणमयति, 'ता आसोइं णमित्यादि, आश्वयुजीं णमिति वाक्यलङ्कारे पौर्णमासीं कति नक्षत्राणि युञ्जन्ति ?, भगवानाह - 'ता' इत्यादि, ता इति पूर्ववत् द्वे नक्षत्रे युङ्कः, तद्यथा- रेवती अश्विनी च, इहोत्तरभद्रपदानक्षत्रमपि कांचिदाश्वयुजी पौर्णमासीं परिसमापयति, परं तत्प्रोष्ठपदीमपि पौर्णमासीं परिसमापयति, तत्रैव च लोके तस्य प्राधान्यं, तन्नाम्ना तस्याः पौर्णमास्याः अभिधानादतस्तदिह न विवक्षितमित्यदोषः, तथाहि - प्रथमामाश्वयुज पौर्णमासीमश्विनीनक्षत्रमेकविंशतौ मुहूर्त्तेष्वेकस्य च द्वाषष्टिभागस्य त्रिषष्टौ सप्तषष्टिभागेषु शेषेषु परिसमापयति, द्वितीयामाश्वयुर्जी पौर्णमासीं रेवतीनक्षत्रं सप्तदशसु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य षट्त्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चाशति सप्त Jain Education International For Personal & Private Use Only १० प्राभृते ६ प्राभृत प्राभृतं पूर्णिमादि नक्षत्रं सू ३८ ॥११६॥ www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy