SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ - १६५०, एकस्य च मुहूर्त्तस्य पञ्चविंशं शतं द्वाषष्टिभागानां १२५ एकस्य च द्वाषष्टिभागस्य पञ्चविंशतिः सप्तषष्टिभागाः २५, तत्र षोडशभिः शतैरष्टात्रिंशदधिकैः १६३८ मुहूर्त्तानामेकस्य च मुहूर्त्तस्याष्टाचत्वारिंशता द्वाषष्टिभागः ४८ एकस्य च द्वाषष्टिभागस्य द्वात्रिंशदधिकेन शतेन १३२ द्वौ नक्षत्रपर्यायौ शुद्ध्यतः, स्थिताः पश्चाद् द्वादश मुहूर्त्ताः १२ एकस्य च मुहूर्त्तस्य पञ्चसप्ततिद्वषष्टिभागाः ७५ एकस्य च द्वाषष्टिभागस्य सप्तविंशतिः सप्तषष्टिभागाः २७, ततो नवभिर्मुहूत्तैरेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिन्नक्षत्रं शुद्ध्यति, स्थिताः पश्चात्रयोदश मुहूर्त्ताः १३ एकस्य च मुहूर्त्तस्य पञ्चाशद् द्वाषष्टिभागाः ६३ एकस्य च द्वाषष्टिभागस्याष्टाविंशतिः सप्तषष्टिभागाः २८, आगतं श्रवणनक्षत्रं षड्विंशतौ मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य एकादशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्यैकोनचत्वारिंशति सप्तषष्टिभागेषु शेषेषु तृतीयां श्राविष्ठीं पौर्णमासीं परिसमापयति, एवं चतुर्थी श्राविष्ठीं पौर्णमासीं धनिष्ठा नक्षत्रं षोडशसु मुहूर्त्तेषु एकस्य च सुमुहूर्त्तस्य त्रयस्त्रिंशति द्वाषष्टिभागेष्वेकस्य द्वाषष्टिभागस्य पञ्चविंशतौ सप्तषष्टिभागेषु शेषेषु परिसमापयति, पञ्चमीं श्राविष्ठीं पौर्णमासीं श्रवणनक्षत्रं द्वादशसु मुहूर्त्तेषु एकस्य च सुमुहूर्त्तस्य षष्टिसङ्ख्येषु द्वाषष्टिभागेष्वेकस्य द्वाषष्टिभागस्य द्वाविंशतौ सप्तषष्टिभागेषु शेषेषु परिसमाप्तिं नयतीति । तदेवं यानि नक्षत्राणि श्राविष्ठीं पौर्णमासीं परिसमापयन्ति तान्युक्तानि, सम्प्रति यानि प्रोष्ठपदीं समापयन्ति तान्याह - 'ता पोहवइण्णं' इत्यादि, ता इति पूर्ववत्, | प्रोष्ठपद-भाद्रपदीं णमिति वाक्यालङ्कारे पौर्णमासीं कति नक्षत्राणि युञ्जन्ति-कति नक्षत्राणि यथायोगं चन्द्रेण सह संयुज्य परिसमापयन्तीत्यर्थः एवं सर्वत्रापि युञ्जन्तीत्यस्य पदस्य भावना कर्त्तव्या, भगवानाह - 'ता' इत्यादि, 'ता' इति पूर्व Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy