________________
तत इदं नकं भागमवसेयं, अपार्द्धक्षेत्रत्वाच्च तस्यामेव रात्रौ योगं परिसमापयति, तथा चाह - ' असलेसा जहा सयभि सया' यथा शतभिषक् प्रागभिहिता तथा अश्लेषापि वक्तव्या, सा चैवम् — 'ता असिलेसा खलु नक्खत्ते नत्तंभागे अवखेत्ते पनर समुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएइ, जोअं जोएत्ता नो लभइ अवरं दिवसं, एवं खलु असिलेसानक्खते एगं राई चंदेण सद्धिं जोगं जोएह जोयं जोइत्ता जोगं अणुपरियट्टेइ, जोगं अणुपरियट्टित्ता पाओ चंदं मघाणं समप्पेइ,' इदं च मघा नक्षत्रमुक्तयुक्त्या प्रातश्चन्द्रेण सह योगमश्नुते, ततः पूर्वभागमवसातव्यं, तथा चाह - मघा यथा पूर्वफाल्गुनी तथा द्रष्टव्या, तद्यथा - 'ता मघा खलु नक्खत्ते पुवभागे समक्खेत्ते तीसइमुहुत्ते तप्पढमयाए पाओ चंदेण सद्धिं जोयं जोएइ ततो पच्छा अवरं राई, एवं खलु मघानक्खत्ते एवं दिवसं एगं च राई चंदेण सद्धिं जोयं जोएइ, जोगं जोइता जोगं अणुपरियहेइ जोगं अणुपरियहित्ता पाओ चंदं पुबफग्गुणीणं समप्पेइ,' इदमपि पूर्वफाल्गुनीनक्षत्रं प्रातश्चन्द्रेण सह योगमुक्तनीत्या समधिगच्छति, ततः पूर्वभागं प्रत्येतव्यं, तथा चाह - 'पुबाफग्गुणी जहा पुबभद्दवया, यथा प्राक् पूर्वभाद्रपदाऽभिहिता तथा पूर्वफाल्गुन्यप्यभिधातव्या, तद्यथा - 'ता पुचफग्गुणी खलु नक्खत्ते पुषभागे समखित्ते तीसइमुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोइं जोएइ, ततो पच्छा अवरं राई, एवं खलु पुबाफग्गुणीनक्खत्ते पांच दिवसं एगं च राई चंदेण सद्धिं जोयं जोएइ, जोगं जोइता जोगं अणुपरियट्टेइ जोगं अणुपरियट्टित्ता पाओ चंदं उत्तराणं फस्गुणीणं समप्पेह' एतच्चोत्तराफाल्गुनीनक्षत्रं द्व्यर्द्धक्षेत्रमतः प्रागुक्तयुक्तिवशादुभयभागं वेदितव्यं, तथा चाह 'रफग्गुणी जहा उत्तर भदवया' यथा प्रागुत्तर भद्रपदोक्ता तथोत्तरफाल्गुन्यपि वक्तव्या, सा चैवम् – 'उत्तरफग्गुणी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org