________________
उद्गमसमये अस्तमनसमये च सातिरेकैकोनषष्टिपुरुषप्रमाणां छायां निवर्त्तयति-एतदेव विभावयिषुराह-'ता अवढे इत्यादि, अपगतमर्द्ध यस्याः सा अपार्द्धा सा चासौ पौरुषी च अपार्द्धपौरुषी छाया पुरुषग्रहणस्योपलक्षणत्वात् सर्वस्यापि वस्तुनः प्रकाश्य स्यार्द्धप्रमाणा छाया, एवमुत्तरत्राप्युपलक्षणव्याख्यानं द्रष्टव्यं, दिवसस्य किं गते-कतमे भागेगते | शेषे वेति-कतितमे भागे शेषे भवति १, भगवानाह-'ता'इत्यादि, ता इति पूर्ववत् , दिवसस्य त्रिभागे गते भवति, दिवसस्य त्रिभागे वा शेषे, 'ता'इत्यादि, पौरुषी पुरुषप्रमाणा, प्रकाश्यस्य वस्तुनः स्वप्रमाणा इत्यर्थः, छाया कि गते-कतितमे भागे गते शेषे वेति-कतितमे वा भागे शेषे भवति ?, भगवानाह-दिवसस्य चतुर्भागे गते चतुर्भागे शेषे वा, प्रकाश्यस्य वस्तुनः स्वप्रमाणभूता छाया अन्यत्र ग्रन्थान्तरे सर्वाभ्यन्तरं मण्डलमधिकृत्योक्ता, तथा च नन्दिचूर्णिग्रन्थः-"पुरिसत्ति संकू पुरिससरीरं वा, ततो पुरिसे निष्फन्ना पोरिसी, एवं सबस्स वत्थुणो यदा स्वप्रमाणा छाया भवति तदा पोरिसी हवइ, एयं पोरिसिप्रमाणं उत्तरायणस्स अंते दक्खिणायणस्स आईए इक्कं दिणं भवइ, अतो परं अद्धएगसहिभागा अंगुलस्स दक्खिणयणे वडंति, उत्तरायणे हस्संति, एवं मंडले २ अन्ना पोरिसी" इति, तत इदं सकलमपि पौरुषीविभागप्रमाणप्रतिपादनं सर्वाभ्यन्तरं मण्डलमधिकृत्यावसेयं, तथा 'ता'इति पूर्ववत् , यर्द्धपौरुषी-सार्द्धपुरुषप्रमाणा छाया दिवसस्य किंभागे-कतितमे भागे गते भवति, किं शेषे वा-कतितमे वा भागे शेषे ?, भगवानाह-'ता' इति पूर्ववत् , दिवसस्य पञ्चमे भागे गते वा भवति, शेषे वा पञ्चमे भागे, 'एव'मित्यादि, एवमुक्तेन प्रकारेण अर्द्धपौरुषीं-अर्द्धपुरुषप्रमाणां छायां | क्षिप्त्वा २ पृच्छा-पृच्छासूत्रं द्रष्टव्यं, 'दिवसभागं'ति पूर्वपूर्वसूत्रापेक्षया एकैकमधिकं दिवसभागं क्षिप्त्वा २ व्याकरण-उत्त
dain Education International
For Personal & Private Use Only
www.janelibrary.org