________________
सूर्यप्रज्ञप्तिवृत्तिः (मल०)
ऊर्ध्वमुच्चैस्त्वेन व्यवस्थित एतावताऽध्वना, सूत्रे चावशब्दस्य स्त्रीत्वेन निर्देशः प्राकृतत्वात् , एकेन च छायानुमानप्रमाणेन प्रकाश्यस्य वस्तुनो यदुद्देशतः प्रमाणमनुमीयते तेन, इहाकाशदेशे सूर्यसमीपे प्रकाश्यस्य वस्तुनः प्रमाणं नैव
९प्राभृते
पौरुषीछासाक्षात् परिग्रहीतुं शक्यते किन्तु देशतोऽनुमानेन ततश्छायानुमानप्रमाणेनेत्युक्तं, 'उमाए'त्ति अवमितः परिच्छिन्नो
या सू ३१ यो देश:-प्रदेशो यस्मिन् प्रदेशे आगतः सन् सूर्य एकपौरुषी पुरुषग्रहणस्योपलक्षणत्वात् सर्वस्य प्रकाश्यस्य वस्तुनः प्रमाणभूतां छायां निवर्तयति, इयमत्र भावना प्रथमत उदयमाने सूर्ये या लेश्या विनिर्गत्य प्रकाशमाश्रितास्ताभिः प्रकाश्यवस्तुदेशे ऊर्दू क्रियमाणाभिः किश्चित्पूर्वाभिमुखमवनताभिः प्रकाश्येन च वस्तुना यः सम्भाव्यते परिच्छिन्न आकाशप्रदेशः तत्रागतः सूर्यप्रकाश्यवस्तुप्रमाणां छायां निवर्तयति, एवमुत्तरत्रापि भावना कार्या, 'तत्थे'त्यादि, तत्र ये ते वादिन एवमाहुः-अस्ति स देशो यस्मिन् देशे समागतः सूर्यो द्विपौरुषी छायां निवर्तयति त एवं स्वमतविस्फारणार्थमाहुः-'ता सूरियस्स णमित्यादि,ता इति पूर्ववत् सूर्यस्य सर्वाधस्तात् सूर्यप्रतिधेः-सूर्यनिवेशाबहिनिःसृताभिर्लेश्याभिस्ताज्यमानाभिरस्यारत्नप्रभायाः पृथिव्या बहुसमरमणीयाभूमिभागादूर्ध्वमुच्चत्वेन व्यवस्थितः एतावद्भयांद्वाभ्यामद्धाभ्यां द्वाभ्यां छायानुमानप्रमाणाभ्यां प्रकाश्यवस्तुप्रमाणाभ्यामवमितः-परिच्छिन्नो यो देशस्तत्र समागतः सूर्यो द्विपौरुषी-प्रकाश्यवस्तुनो द्विगुणां छायां निर्वयति, एवमेकैकप्रतिपत्तावेकैकच्छायानुमानप्रमाणवृद्ध्या तावन्नेतव्यं यावत्पण्णवतितमा प्रतिपत्तिः, तद्गतानि च सूत्राणि स्वयं परिभावनीयानि, सुगमत्वात् , तदेवमुक्ताः परतीर्थिकप्रतिपत्तयः । सम्प्रति स्वम-
III तमुपदर्शयति-वयं पुण'इत्यादि, वयं पुनरेवं-वक्ष्यमाणेन प्रकारेण वदामः, तमेव प्रकारमाह-सातिरेगे'त्यादि, सूर्य
J८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org