________________
तप्रमाणां वक्ष्यति, परतीर्थिकास्तु प्रतिनियतामेव प्रतिदिवस देशविभागेनेच्छति ततः प्रथमतस्तन्मतान्येवोपदर्शयति'तत्थे'त्यादि, तत्र - तस्मिन् देशविभागेन प्रतिदिवस प्रतिनियतायाः पौरुष्याभ्छायाया विषये षण्णवतिः प्रतिपत्तयः प्रज्ञताः, तद्यथा-तत्र तेषां षण्णवतेः परतीर्थिकानां मध्ये एके एवमाहुः, ता इति पूर्ववत् अस्ति स देशो यस्मिन् देशे सूर्य आगतः सन् एकपौरुष - एक पुरुषप्रमाणां पुरुष ग्रहणमुपलक्षणं सर्वस्यापि प्रकाश्यवस्तुनः स्वप्रमाणां छायां निर्वर्त्तयति, अत्रोपसंहारः - 'एगे एवमाहंसु' १, 'एके पुनरेवमाहुः - अस्ति स देशो यस्मिन् देशे समागतः सूर्यो द्विपौरुषीं - द्विपुरुषप्रमाणां पुरुषग्रहणस्योपलक्षणत्वात् सर्वस्यापि वस्तुनः प्रकाश्यस्य द्विगुणामित्यर्थः, छायां निर्वर्त्तयति, अत्रोपसंहारः - 'एगे एवमाहंसु' २, 'एवमित्यादि, एवमुक्तेन प्रकारेण एतेनानन्तरोदितेनाभिलापेन - सूत्रपाठगमेन शेषप्रतिपत्तिगतमपि सूत्रं नेतव्यं तावद्यावच्चरमप्रतिपत्तिगतं सूत्रं, तदेव खण्डशो दर्शयति- 'छन्नउ' इत्यादि, एतच्चैवं परिपूर्ण द्रष्टव्यं - 'एगे पुण एवमाहंसु, अस्थि णं से देसे जंसि णं देसंसि सूरिए छन्नउइपोरसिं छायं निबत्तर आहियत्तिवएज्जा एगे एवमाहंसु' मध्य| मप्रतिपत्तिगतास्त्वालापकाः सुगमत्वात् स्वयं परिभावनीयाः, सम्प्रत्येतासामेव षण्णवतिप्रतिपत्तीनां भावनिकां चिकीर्षुराह- 'तत्थे'त्यादि, तत्र - तेषां षण्णवतिपरतीर्थिकानां मध्ये ये ते वादिन एवमाहुः - अस्ति स देशो यस्मिन् देशे समागतः सूर्य एकपौरुषीं - प्रकाश्यवस्तुनः स्वप्रमाणां छायां निर्वर्त्तयति त एवं स्वमतविभावनार्थमाहुः - 'ता सूरियस्स ण'मित्यादि, ता इति पूर्ववत् सूर्यस्य सर्वाधस्तनात् सूर्यप्रतिधेः- सूर्यप्रतिधानात् सूर्यनिवेशादित्यर्थः बहिर्निःसृता या लेश्यास्ताभिः 'ताडिजमाणाहिं' ति ताड्यमानाभिरस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयाद् भूमिभागाद्यावति सूर्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org