SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ 'ता कइकट्ठे ते' इत्यादि, ता इति पूर्ववत्, कतिकाष्ठां - किंप्रमाणां भगवन् ! त्वया सूर्यः पौरुषीच्छायां निर्वर्त्तयन्नाख्यात इति वदेत् ?, एवमुक्ते भगवान् प्रथमतो लेश्यास्वरूपविषये यावन्त्यः परतीर्थिकानां प्रतिपत्तयस्तावतीरुपदर्शयति - 'तत्थ खलु' इत्यादि, तत्र - तस्यां पौरुष्यां छायायां विषये लेश्यामधिकृत्य खल्विमाः पञ्चविंशतिः प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-तत्र तेषां पञ्चविंशतेः परतीर्थिकानां मध्ये एके एवमाहुः - ता इति पूर्ववत्, अनुसमयमेव- प्रतिक्षणमेव सूर्य: पौरुपीछायां, इह लेश्यावशतः पौरुषीछाया भवतीति ततः कारणे कार्योपचारात् पौरुषी छायेति लेश्या द्रष्टव्या, तां निर्वर्त्तयति निर्वर्त्तयन्नाख्यात इति वदेत् किमुक्तं भवति ? - प्रतिक्षणमन्यामन्यां सूर्यो लेश्यां निर्वर्त्तयन् आख्यात इति वदेत्, अत्रोपसंहारः - 'एगे एवमाहंसु, 'एव'मित्यादि, एवं उक्तेन प्रकारेण एतेनानन्तरोदितेनाभिलापेन सूर्यपाठगमेन या एव ओजः संस्थितौ पञ्चविंशतिः प्रतिपत्तयः उक्ताः ता एव क्रमेणात्रापि नेतव्याः, तावद्यावच्चरमप्रतिपत्तिप्रतिपादकमिदं सूत्रं - 'एगे पुण एवमाहंसु-ता अणु-ओसप्पिणिउस्सप्पिणिमेव सूरिए' इत्यादि, मध्यमास्त्वालापका एवं ज्ञातव्याः'एगे पुण एवमाहंसु ता अणुमुहुत्तमेव सूरिए पोरिसिच्छायं निवत्तेइ आहियत्ति वएजा 'एगे एवमाहंसु' इत्यादि, तदेवं लेश्याविषयाः परप्रतिपत्तीरुपदर्श्य सम्प्रति तद्विषयं स्वमतमाह - 'वयं पुण' इत्यादि, वयं पुनरेवं वदामः, कथमित्याह'ता सूरियस्स ण' मित्यादि, ता इति पूर्ववत्, सूर्यस्य णमिति वाक्यालङ्कारे उच्चत्वं लेश्यां च प्रतीत्य छायोद्देशः, किमुक्तं भवति ? - यथा सूर्य उच्चैरुच्चैस्तरामधिरोहति यथा च मध्याह्नादूर्ध्वं नीचैस्तरामतिक्रामति एतदपि लौकिकव्यवहारापेक्षया उच्यते, लौकिका हि प्रथमतो दूरतरवर्त्तिनं सूर्य उदयमानमतिनीचैस्तरां पश्यन्ति, ततः प्रत्यासन्नं प्रत्यासन्नतरं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy