SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञतिवृत्तिः ( मल० ) ॥ ९६ ॥ भवन्तमुच्चैरुच्चैस्तरां मध्याहादूर्ध्वं च क्रमेण दूरं दूरतरं भवन्तं नीचैनींचैस्तरामिति, तथा यथा लेश्याः सञ्चरन्ति, तद्यथाअतिनीचैस्तरां वर्त्तमाने सूर्ये सर्वस्यापि प्रकाश्यस्य वस्तुन उपरि प्लवमाना वस्तुनो दूरतः परिपतन्ति ततः प्रकाश्यस्य वस्तुनो महती महत्तरा छाया भवति, उच्चैरुच्चैस्तरां वर्द्धमाने सूर्ये प्रत्यासन्नाः प्रत्यासन्नतराः परिपतन्ति, ततः प्रकाश्यस्य वस्तुनो हीना हीनतंरा छाया भवति, तत एवं तथा तथा वर्त्तमानं सूर्यस्योच्चत्वं लेश्यां च प्रतीत्य छायाया अन्यथाभवन्त्या उद्देशो ज्ञातव्यः, इह प्रतिक्षणं तत्तत्पुद्गलोपचयेन तत्तत्पुद्गलहान्या वा यत् छायाया अन्यत्वं तत्केवल्येव जानाति छद्मस्थस्तूद्देशतस्तत उक्तं छायोद्देश इति, 'उच्चत्तं च छायं च पडुच्च लेसोदेस' इति, तथा तथा विवर्त्तमानं सूर्यस्योच्चत्वं छायां च हीनां ' हीनतरामधिकामधिकतरां च तथा तथा भवन्तीं प्रतीत्य- आश्रित्य लेश्यायाः - प्रकाश्यस्य वस्तुनः प्रत्यासन्नं प्रत्यासन्नतरं दूरं दूरतरं वा परिपतन्त्या उद्देशो ज्ञातव्यः, तथा 'लेसं च छायं च पडुच्च उच्चत्तोद्देसे' इति, लेश्यां - प्रकाश्यस्य वस्तुनो दूरं दूरतरमासन्नमासन्नतरं परिपतन्तीं छायां च हीनां हीनतरामधिकामधिकतरां च तथा तथा भवन्तीं प्रतीत्य सूर्यगतस्योच्चत्वस्य तथा तथा विवर्त्तमानस्योद्देशो ज्ञातव्यः, किमुक्तं भवति ? - त्रीण्यप्येतानि प्रतिक्षणमन्यथान्यथा विवर्तन्ते, तत एकस्य द्वयस्य वा तथा तथा विवर्त्तमानस्योद्देशत उपलम्भादितरस्याप्युद्देशतोऽवगमः कर्त्तव्य इति । तदेवं लेश्यास्वरूपमुक्तं, सम्प्रति पौरुष्याश्छायायाः परिमाणविषये परतीर्थिकप्रतिपत्तिसम्भवं कथयति - 'तत्थे'त्यादि, तत्र - तस्यां पौरुष्याश्छायायाः परिमाणचिन्तायां विषये खल्विमे द्वे प्रतिपत्ती प्रज्ञप्ते, तद्यथा-तत्र - तेषां द्वयानां परतीर्थिकानां मध्ये एके एवमाहुः- अस्ति स दिवसो यस्मिन् दिवसे सूर्य उद्गमनमुहूर्त्ते अस्तमयमुहूर्त्ते च Jain Education International For Personal & Private Use Only ९ प्राभृते पौरुषीछाया सू ३१ ॥ ९६ ॥ www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy