SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिवृत्तिः (मल०) ९ प्राभृते लेश्या सू ३० यश्च पीठफलकादीनां सूर्यलेश्यासंस्पृष्टानां सन्ताप उपलभ्यते स तदाश्रितानां सूर्यलेश्यापुद्गलानामेव स्वरूपेण, न पीठफलकादिगतानां पुद्गलानामिति न प्रत्यक्षविरोधः, ते णमिति प्राग्वत्, पुद्गला असन्ताप्यमानास्तदनन्तरान् बाह्यान् पुद्गलान्न सन्तापयन्ति-नोष्णीकुर्वन्ति, स्वतस्तेषामसन्तप्तत्वात् , इतिशब्दः प्राग्वत् व्यक्तः, "एस 'मित्यादि, एतत्एवंस्वरूपं 'से' तस्य सूर्यस्य तापक्षेत्रं समितं-उपपन्नमिति, अत्र उपसंहारमाह-'एगे एवमासु' २, एके पुनरेवमाहुः, 'ता'इति पूर्ववत् , णमिति प्राग्वत् ये पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते पुद्गला अस्तीति प्राकृतत्वान्निपातत्वाद्वा सन्ति एककाः केचन पुद्गला ये सूर्यलेश्यासंस्पर्शतः सन्तप्यन्ते-सन्तापमनुभवन्ति, तथा सन्त्येककाः केचन पुद्गला ये न सन्तप्यन्ते, तत्र ये सन्त्येककाः सन्तप्यमानास्ते तदनन्तरान् बाह्यान् पुद्गलान् अस्त्येतत् यत् एककान्-कांश्चित्सन्तापयन्ति, अस्त्येतद्यदेककान्-कांश्चिन्न सन्तापयन्ति, इतिशब्दः पूर्ववत्, 'एस 'मित्यादि, एतत्-एवंस्वरूपं 'से' तस्य सूर्यस्य समितं-उपपन्नं तापक्षेत्रं, अत्रोपसंहारमाह-एगे एवमाहंसु'३।एतास्तिस्रोऽपि प्रतिपत्तयो मिथ्यारूपास्तथा च एता व्युदस्य भगवान् भिन्नं स्वमतमाह-'वयं पुण'इत्यादि, वयं पुनरेवं-वक्ष्यमाणेन प्रकारेण वदामः, तमेव प्रकारमाह-'ता जईए'(जाओ इमाओ) इत्यादि, ता इति पूर्ववत् , या इमाःप्रत्यक्षत उपलभ्यमानाश्चन्द्रसूर्याणां देवानां सत्केभ्यो विमानेभ्यो लेश्या उच्छूढाः, एतदेव व्याचष्टे-अभिनिःसृतास्ताःप्रतापयन्ति-बाह्यं यथोचितमाकाशवर्ति प्रकाश्य प्रकाशयन्ति, एतासां चेत्थं विमानेभ्यो निःसृतानां लेश्यानामन्तरेषु-अपान्तरालेष्वन्यतराश्छिन्नलेश्याः सम्मूर्च्छन्ति, ततस्ता मूलच्छिन्ना लेश्याः सम्मूञ्छिताः सत्यस्तदनन्तरान् बाह्यान् पुद्गलान् संतापयन्ति, इतिशब्दः पूर्ववत् , 'एस ण'मित्यादि, एतत्-एवंस्वरूप, M॥१३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy