________________
|णिसट्टाओ पतावेंति, एतासि णं लेसाणं अंतरेसु अण्णतरीओ छिपणलेसाओ संमुच्छंति, तते णं ताओ४ छिण्णलेस्साओ संमुच्छियाओ समाणीओ तदणंतराइं बाहिराई पोग्गलाई संतावेंतीति एस णं से समिते |तावक्खेत्ते ॥ (सूत्रं ३०)॥ | "ता कइकडं ते'इत्यादि पूर्ववत् 'कति' किंप्रमाणा काष्ठा-प्रकर्षो यस्याः सा कतिकाष्ठा तां कतिकाष्ठां-किंप्रमाणां ।। | 'ते' तव मते सूर्यः 'पौरुषी' पुरुषे भवा पौरुषी तां पौरुषी छायां निर्वर्त्तयति, निवर्तयन्नाख्यात इति वदेत् ?, किंप्रमाणां |पौरुषीछायामुत्पादयन् सूर्यों भगवान् त्वया आख्यात इति वदेदिति सङ्केपार्थः, एवं प्रश्ने कृते भगवानेतद्विषये यावन्त्यः। प्रतिपत्तयस्तावतीरुपदर्शयति-तत्थे'त्यादि, तत्र-तस्याः पौरुष्याः छायायाः प्रमाणचिन्तायां प्रथमतस्तावदिमास्तापक्षेत्रस्वरूपविषयाः खलु तिस्रः प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-'तत्र' तेषां त्रयाणां परतीथिकानां मध्ये एके-प्रथमा एवमाहुः'ता जे 'मित्यादि, ता इति पूर्ववत् , ये णमिति वाक्यालङ्कारे पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते पुद्गलाः सूर्यलेश्यासंस्पर्शतः सन्तप्यन्ते-सन्तापमनुभवन्ति, सन्तप्यन्त इति कर्मकर्तरि प्रयोगः, ते च पुद्गलाः सन्तप्यमानाः तदनन्तरान्-तेषां सन्तप्यमानानां पुद्गलानामव्यवधानेन ये स्थिताः पुद्गलास्ते तदनन्तरास्तान् बाह्यान् पुद्गलान् , सूत्रे च नपुंसकनिर्देशः प्राकृतत्वात् , सन्तापयन्ति, इतिशब्दः प्रस्तुतवक्तव्यतापरिसमाप्तिसूचकः, 'एस 'मित्यादि एतत्-एवंस्वरूपं 'से' तस्य सूर्यस्य समितं-उपपन्नं तापक्षेत्रं, अत्रोपसंहारमाह-एगे एवमाहंसु' १, एके पुनरेवमाहुः, 'ता इति पूर्ववत् , ये णमिति प्राग्वत् पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते पुद्गला न सन्तप्यन्ते-न सन्तापमनुभवन्ति,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org