SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ र्थिका एवमाहुः-ता जया णमित्यादि, तत्र यदा णमिति वाक्यालङ्कारे अस्मिन् जम्बूद्वीपे द्वीपे दक्षिणा अष्टादश मुहूर्तो दिवसो भवति तदा उत्तरार्द्धऽपि अष्टादशमुहूर्तो दिवसः, तदेवं दक्षिणार्द्धनियमनेनोत्तरार्द्धनियम उक्तः, सम्प्रति उत्तरार्द्धनियमनेन दक्षिणार्द्धनियमनमाह-'ता जया णमित्यादि, तत्र यदा उत्तरार्द्ध अष्टादशमुहूतों दिवसो भवति तदा दक्षिणाद्धेऽपि अष्टादशमुहूत्र्तो दिवसः, 'ता जया 'मित्यादि, यदा जम्बूद्वीपे द्वीपे दक्षिणाः सप्तदशमुहूर्तो दिवसो भवति तदा उत्तरार्द्धऽपि सप्तदशमुहूर्तो दिवसो भवति, यदा चोत्तरार्द्ध सप्तदशमुहूर्तो दिवसो भवति तदा दक्षिणाद्देऽपि सप्तदशमुहत्तॊ दिवसः, 'एवं'इत्यादि, एवं-उक्तेन प्रकारेण एकैकमुहूर्तहान्या परिहातव्यं, परिहानिमेव क्रमेण दर्शयति-प्रथमत उक्तप्रकारेण षोडशमुहूर्तो दिवसो वक्तव्यः, तदनन्तरं पञ्चदशमुहर्तस्ततचतुर्दशमुहूर्तस्ततस्त्रयोदशमुहूर्तः, सूत्रपाठोऽपि प्रागुक्तसूत्रानुसारेण स्वयं परिभावनीयः, स चैवम्-'जया णं जंबुद्दीवे दीवे दाहिणड्ढे सोलसमुहुत्ते दिवसे भवइ तया णं उत्तरडेवि सोलसमुहुत्ते दिवसे भवइ, जया णं उत्तरढे सोलसमुहुत्ते दिवसे भवइ तया णं दाहिणड्डेवि सोलसमुहुत्ते दिवसे भवई'इत्यादि, द्वादशमुहूर्त्तदिवसप्रतिपादकं सूत्रं साक्षादाह-'ता जया 'मित्यादि, ता इति-तत्र यदा जम्बूद्वीपे द्वीपे दक्षिणाढे द्वादशमुहूत्र्तो दिवसो भवति तदा उत्तरार्द्धऽपि द्वादशमुहूर्तो दिवसो, यदा उत्तरार्द्ध द्वादशमुहूर्तो दिवसस्तदा दक्षिणाद्देऽपि द्वादशमुहूर्त्तप्रमाणो दिवसः, तदा च अष्टादशमुहूर्तादिदिवसकाले | जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यामपरस्यां च दिशि सदा-सर्वकालं पञ्चदशमुहूर्तो दिवसो भवति, सदैव च पञ्चदशमुहूर्ता रात्रिः, कुत इत्याह-अवस्थितानि-सकलकालमेकप्रमाणानि, णमिति वाक्यालङ्कारे, तत्र मन्दरस्य पर्वतस्य dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy