SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिवृत्तिः (मल०) पूर्वस्यामपरस्यां च दिशि रात्रिंदिवानि प्रज्ञप्तानि, हे श्रमण ! हे आयुष्मन् !, एतच्च प्रथमानां परतीथिकानां मूलभूतं ८प्राभृते स्वशिष्यं प्रत्यामन्त्रणवाक्यं, अत्रैवोपसंहारमाह-एगे एवमाहंसु'१, एके पुनरेवमाहुः-यदा जम्बूद्वीपे द्वीपे दक्षिणेऽ उदयसंस्मिन्नद्धेऽष्टादशमुहूर्त्तानन्तरः-अष्टादशभ्यो मुहूर्तेभ्योऽनन्तरो-मनाकू हीनो हीनतरो वा यावत्सप्तदशभ्यो मुहूर्तेभ्यः स्थितिः किञ्चित्समधिकप्रमाणो दिवसो भवति तदा उत्तरार्द्धऽप्यष्टादशमुहूर्तानन्तरो दिवसो भवति, यदा चोत्तराद्देऽष्टादश सू२९ मुहूर्त्तानन्तरो दिवसो भवति तदा दक्षिणाद्धेऽपि अष्टादशमुहुर्तानन्तरो दिवसः, तथा यदा जम्बूद्वीपे द्वीपे दक्षि|णार्द्ध सप्तदशमुहूर्त्तानन्तरो दिवसो भवति तदा उत्तरार्द्धऽपि सप्तदशमुहूर्त्तानन्तरो दिवसः, यदा उत्तरार्द्ध सप्तदशमुहू निन्तरो दिवसस्तदा दक्षिणाद्धेऽपि सप्तदशमुहूर्तानन्तरो दिवसः, 'एव'मित्यादि, एवमुक्तेन प्रकारेण एकैकमुहूर्तहान्या परिहातव्यं, परिहानिप्रकारमेवाह-सोलसे'त्यादि, प्रथमतः षोडशमुहूर्त्तानन्तरो दिवसो वक्तव्यः, ततः पञ्चदशमुहूर्तानन्तरस्तदनन्तरं चतुर्दशमुहूर्तानन्तरः, ततः त्रयोदशमुहूर्त्तानन्तरः, एतेषां हि मतेन न कदाचनापि परिपूर्णमुहूर्तप्रमाणो दिवसो भवति, ततः सर्वत्रानन्तरशब्दप्रयोगः, द्वादशमहानन्तरसूत्रं तु साक्षाद्दर्शयति,-'ता जया 'मित्यादि, तत्र यदा जम्बूद्वीपे द्वीपे दक्षिणार्द्ध द्वादशमुहूर्त्तानन्तरो दिवसस्तदा उत्तरार्द्धऽपि द्वादशमुहूर्तानन्तरो दिवसः, |यदा चोत्तरार्द्धं द्वादशमुहूर्त्तानन्तरो दिवसस्तदा दक्षिणाद्धेऽपि द्वादशमुहूर्त्तानन्तरो दिवसः, तदा चाष्टादशमुहूत्तानन्त-13 रादिदिवसकाले जम्बूद्वीपे मन्दरस्य पर्वतस्य पूर्वस्यामपरस्यां च दिशि नो-नैव सदा-सर्वकालं पञ्चदशमुहूर्तो दिवसो ॥८७॥ भवति नापि सदा पञ्चदश मुहूर्त्ता रात्रिः, कुत इत्याह-'अणवढिया णमित्यादि, अनवस्थितानि-अनियतप्रमाणानि, ॐॐॐॐॐॐ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy