________________
| मांह- 'ता मंदरेऽवी 'त्यादि, ता इति पूर्ववत्, योऽसौ पर्वतः सूर्य वरयन् आख्यातः स मन्दरोऽप्युच्यते मेरुरप्युच्यते यावत्पर्वतराजोऽप्युच्यते, एतच्च प्रागेव भावितं, ततो भिन्नभिन्नविषयतया प्रवृत्ताः प्राक्तन्यः प्रतिपत्तयः सर्वा अपि मिथ्यारूपा अवगन्तव्याः, अपि च-न केवलो मेरुरेव सूर्य वरयति, किं त्वन्येऽपि पुद्गलाः, तथा चाह- 'ता जेण' मि त्यादि, ता इति पूर्ववत् जे णमिति वाक्यालङ्कारे पुद्गला मेरुगता अमेरुगता वा सूर्यलेश्यां स्पृशन्ति ते पुद्गलाः स्वप्रकाशकत्वेन सूर्य वरयन्ति, ईप्सितं हि सूर्येण प्रकाश्यते, ततो लेश्यापुद्गलैः सह सम्बन्धात्परंपरया ते सूर्य स्वं कुर्वन्तीत्युच्यते, ये च प्रकाश्यमानपुद्गलस्कन्धान्तर्गता मेरुगता अमेरुगता वा सूर्येण प्रकाशिता अपि सूक्ष्मत्वान्न चक्षुःस्पर्शमुपगच्छन्ति तेऽपि प्रागुक्तयुक्त्या सूर्य वरयन्ति येऽपि च चरमलेश्यान्तरगताः - स्वचरमलेश्याविशेषस्पर्शिनः पुद्गलास्तेsपि सूर्यं वरयन्ति तेषामपि सूर्येण प्रकाश्यमानत्वात् ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां सप्तमं प्राभृतं समाप्तम् ॥
->
तदेवमुक्तं सप्तमं प्राभृतं सम्प्रति अष्टममारभ्यते - तस्य चायमर्थाधिकारः - 'कथं त्वया भगवन् ! उदयसंस्थितिराख्याता' इति, तत इत्थंभूतमेव प्रश्नसूत्रमाह
ता कहते उदयसंठिती आहितेति वदेजा ?, तत्थ खलु इमाओ तिष्णि पडिवत्तीओ पण्णत्ताओ, तस्थेगे एवमाहंसु, ता जया णं जंबुद्दीवे २ दाहिणड्डे अट्ठारसमुहुत्ते दिवसे भवति तता णं उत्तरदेवि अट्ठारसमु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org