________________
*SHASS
प्रतिमण्डलमष्टादशशतभागानां त्रिंशदधिकानां सत्कमेकैकं भागमभिवर्द्धयन् तावद्वक्तव्यो यावत्सर्वाभ्यन्तरे मण्डले त्र्यशीत्यधिक भागशतं दिवसक्षेत्रगतस्य प्रकाशस्याभिवर्द्धयति रजनिक्षेत्रगतस्य च हापयति, व्यशीत्यधिकं च भागशतं जम्बूद्वीपचक्रवालस्य दशमो भागस्ततः सर्वबाह्यान्मण्डलात्सर्वाभ्यन्तरे मण्डले दिवसक्षेत्रगतस्य प्रकाशस्यैको दशमश्चक्रवालभागोऽभिवर्द्धते रजनिक्षेत्रगतस्य तु त्रुव्यतीति यत्प्रागवादि तदविरोधीति, सूत्रं तु–'तया णं अट्ठारसमुहुत्ते दिवसे'इत्यादिकं सकलमपि प्राभृतपरिसमाप्तिं यावत्सुगम, नवरमेवमत्रोपसंहारः-यत एवं सूर्यचारस्ततः प्रतिसूर्यसंवत्सरं सूर्यसंवत्सरपर्यन्ते सर्वाभ्यन्तरे मण्डले त्रिंशतं २ मुहूर्तान् यावत्परिपूर्णमवस्थितमोजस्ततः परमनवस्थितं, सर्वा
भ्यन्तरेऽपि च मण्डले त्रिंशतं मुहूर्तान् यावत्परिपूर्णमवस्थितमोज उच्यते व्यवहारतो निश्चयतः पुनस्तत्रापि प्रथमक्षणाहै दूर्ध्वं शनैः शनैहीयमानमवसेयं, प्रथमक्षणादूर्व सूर्यस्य सर्वाभ्यन्तरानन्तरद्वितीयमण्डलाभिमुखं चारचरणादिति ॥ माइति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां षष्ठं प्राभूतं परिसमाप्तम् ॥
MI तदेवमुक्तं षष्ठं प्राभृतं, सम्प्रति सप्तमं आरभ्यते, तस्य चायमाधिकारः 'कस्तव मतेन भगवन् ! सूर्य वरयती'ति, तत
एतद्विषयं प्रश्नसूत्रमाह४ ता के ते सूरियं वरंति आहिताति वदेजा?, तत्थ खलु इमाओ वीसं पडिवत्तीओ पण्णत्ताओ, तत्थेगे एव
माहंसु-ता मंदरे णं पवते सूरियं वरयति आहितेति वदेजा, एगे एवमाहंसु १, एगे पुण एवमाहंसु ता मेरू
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org