________________
सूर्यप्रज्ञतिवृत्तिः (मल०)
६ ओज:स्थिति
८२॥
प्राभृते सू २७
SSSSSSSSS
न्तरं द्वितीयं मण्डलमुपसङ्क्रम्य चारं चरति तदा एकेन रात्रिन्दिवेन सर्वाभ्यन्तरमण्डलगतेन प्रथमक्षणादूर्ध्व शनैः शनैः कलामात्रकलामात्रहापननाहोरात्रपर्यन्ते एकं भागमोजसः-प्रकाशस्य दिवसक्षेत्रगतस्य निर्वेष्य-हापयित्वा तमेव चैक भागं रजनिक्षेत्रस्याभिवर्द्धयित्वा चारं चरति, कियत्प्रमाणं पुनर्भाग दिवसक्षेत्रगतस्य प्रकाशस्य हापयित्वा रजनिक्षेत्रस्य वर्द्धयित्वा , तत आह-मण्डलमष्टादशभिस्त्रिंशैः-त्रिंशदधिकैः शतैश्छित्त्वा, किमुक्तं भवति ?-द्वितीयं मण्डलमष्टादश
भिस्त्रिंशदधिकैर्भागशतैर्विभज्य तत्सत्कमेकं भागमिति, कस्मात्पुनर्मण्डलस्याष्टादश शतानि त्रिंशदधिकानि भागानां परि* कल्प्यन्ते ?, उच्यते, इह एकैकं मण्डलं द्वाभ्यां सूर्याभ्यां एकेनाहोरात्रेण भ्रम्या पूर्यते, अहोरात्रश्च त्रिंशन्मुहूर्त्तप्रमाणः,
प्रतिसूर्य चाहोरात्रगणने परमार्थतो द्वावहोरात्रौ भवतः, द्वयोश्चाहोरात्रयोः षष्टिर्मुहूर्ताः, ततो मण्डलं प्रथमतः षट्या भागैविभज्यते, निष्कामन्तौ च सूर्यों प्रत्यहोरात्रं प्रत्येकं द्वौ द्वौ मुहूर्तेकषष्टिभागौ हापयतः प्रविशन्तौ चाभिवर्द्धयतः, यौ च द्वौ मुहूत्र्तकषष्टिभागौ तौ समुदितावेकः सार्द्धत्रिंशत्तमो भागः, ततः षष्टिरपि भागाः सार्धया त्रिंशता गुण्यन्ते, जातान्यष्टादश शतानि त्रिंशताऽधिकानि च भागानां, एवं निष्क्रामन् सूर्यः प्रतिमण्डलं त्रिंशदधिकाष्टादशशतसङ्ख्यानां भागानां सत्कमेकैकं भागं दिवसक्षेत्रगतस्य प्रकाशस्य हापयन् रजनिक्षेत्रस्याभिवर्द्धयन् । तावद्वक्तव्यः यावत्सर्वबाह्ये मण्डले त्र्यशीत्यधिकं भागशतं दिवसक्षेत्रगतस्य प्रकाशस्य हापयिता रजनिक्षेत्रस्य चाभिवर्द्धयिता भवति, यशीत्यधिक च भागशतमष्टादशशतानां त्रिंशदधिकानां दशमो भागः, ततः 'सर्वाभ्यन्तरान्मण्डलात् सर्वबाह्य मण्डले जम्बूद्वीपच-12 क्रवाल दशभागस्खुव्यति रजनिक्षेत्रस्याभिवर्द्धते' इति यत्प्रागभिहितं तदपि समीचीनं जातमिति, एवमभ्यन्तरं प्रविशन्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org