________________
आहिए इति वएज्जा?, ता जेणं जंबुद्दीवस्स दीवस्स परिक्खेवे पण्णत्ते.तं परिक्खेवं तिहिं गुणित्ता दसहिं छित्ता दसहि भागे हीरमाणे एस णं परिक्खेवविसेसे आहिए इति वएज्जा, तीसे णं अंधकारे केवइए आयामेणं आहिए इति वइज्जा?, ता तेसीइ जोयणसहस्साई तिनि य तित्तीसे जोयणसए जोयणत्तिभागं च आहिए इति वएजा, तया णं उत्तमकहपत्ता
उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहण्णए दुवालसमुहुत्ते दिवसे भवई' इदं च सकलमपि प्रागुक्तसूत्रव्याख्यानुसालारण स्वयं परिभावनीयं, तापक्षेत्रसंस्थितौ चिन्त्यमानायां यन्मंदरपरिरयादि द्वाभ्यां गुण्यते अन्धकारचिन्तायां तु
तत्रिभिस्तदनन्तरं चोभयत्रापि दशभिविभजनं तथा सर्ववाह्ये मण्डले सूर्यस्य चारं चरतो लवणसमुद्रमध्ये पञ्च योजनस-II हस्राणि तापक्षेत्रं तदनुरोधाद्, अन्धकारश्चायामतोवर्द्धते ततस्यशीतिर्योजनसहस्राणि इत्युक्तमिति । तदेवमुक्तं तापक्षेत्रसंस्थितिपरिमाणमन्धकारसंस्थितिपरिमाणं च, सम्प्रत्यूर्ध्वमधः पूर्वविभागेऽपरविभागे च यावत्प्रकाशयतः सूर्यो तन्निरूपणार्थ सूत्रमाह-'ता जंबुद्दीवे 'मित्यादि, ता इति पूर्ववत्, जंबूद्वीपे कियत्-कियत्प्रमाणं क्षेत्रं सूर्यावूर्व तापयतः-प्रकाशयतः कियत्क्षेत्रमधः कियत्क्षेत्रं तिर्यक्, पूर्वभागे अपरभागे चेत्यर्थः, भगवानाह-'ता'इत्यादि, ता इति पूर्ववत् , जम्बूद्वीपे द्वीपे सूर्यों प्रत्येकं स्वविमानादूर्ध्वमेकं योजनशतं तापयतः-प्रकाशयतः अधस्तापयतोऽष्टादश योजनशतानि, एतच्चाधोलौकिकग्रामापेक्षया द्रष्टव्यं, तथाहि-अधोलौकिकग्रामाः समतलभूभागमवधीकृत्याधो योजनसहस्रेण व्यवस्थिता
तत्रापि सूर्यप्रकाशः प्रसरति, ततः समतलभूभागस्याधो योजनसहस्रं तदूर्ध्व चाष्टौ योजनशतानीत्युभयमीलनेऽष्टादश नियोजनशतानि, तिर्यक् स्वविमानात् पूर्वभागेऽपरभागे च प्रत्येक तापयतः सप्तचत्वारिंशद्योजनसहस्राणि द्वे योजनशते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org