SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञतिवृत्तिः ( मल० ) ॥ ७० ॥ माह - 'ता कहं ते' इत्यादि, ता इति पूर्ववत् कथं भगवन् ! त्वया तापक्षेत्रसंस्थितिराख्याता इति भगवान् वदेत् १, एवमुक्ते भगवान् एतद्विषये यावत्यः परतीर्थिकानां प्रतिपत्तयस्तावतीरुपदर्शयति- 'तत्थे'त्यादि, तत्र तस्यां तापक्षेत्रसंस्थितौ विषये खल्विमाः षोडश प्रतिपत्तयः - परतीर्थिकाभ्युपगमरूपाः प्रज्ञप्ताः, तद्यथा-तत्र तेषां षोडशानां परतीर्थिकानां मध्ये एके एवमाहुः - 'गेहसंठिय'त्ति गेहस्येव - वास्तुविद्या प्रसिद्ध गृहस्येव संस्थितं - संस्थानं यस्याः सा तथा, तापक्षेत्रसंस्थितिः प्रज्ञप्ता, अत्रैवोपसंहारमाह- 'एगे एवमाहंसु, एवं जाव वालग्ग पोत्तियासंठिया तावखित्तसंठिई पन्नत्ता' इति, एवं - अनन्तरोक्तेन प्रकारेण - चन्द्रसूर्यसंस्थितिगतेन प्रकारेणेत्यर्थः, गृहसंस्थिताया ऊर्ध्वं तावद् वक्तव्यं यावद्वालाग्रपोत्तिकासंस्थिता प्रज्ञप्ता इति, तच्चैवम्- 'एगे पुण एवमाहंसु गेहावणसंठिया तावखेत्तसंठिई पण्णत्ता, एगे एवमासु २, एगे पुण एवमाहंसु पासाय संठिया तावखित्त संठिई पन्नत्ता, एगे एवमाहंसु ३, एगे पुण एवमाहंसु गोपुरसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु ४, एगे पुण एवमाहंसु पिच्छाघरसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु ५, एगे पुण एवमाहंसु वलभीसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु ६, एगे पुण एवमाहंसु हम्मियतलसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु ७, एगे पुण एवमाहंसु वालग्गपोत्तिवासंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु ८' अत्र सर्वेष्वपि पदेषु विग्रहभावना प्रागिव कर्त्तव्या, 'एगे पुण' इत्यादि एके पुनरेवमाहुः 'जस्संठिय'त्ति यत् संस्थितं - संस्थानं यस्य स यत्संस्थितो जम्बूद्वीपो द्वीपस्तत्संस्थिता - तदेव - जम्बू द्वीपगतं संस्थितं - संस्थानं यस्याः सा तथा तापक्षेत्रसंस्थितिः प्रज्ञप्ता, अत्रोपसंहारः 'एगे एवमाहंसु' ९, एके पुनरेवमाहुः - यत्संस्थितं भारतं वर्षे तत्संस्थिता Jain Education International For Personal & Private Use Only ४ प्राभृतम् ॥ ७० ॥ www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy