SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ भागस्तस्येव संस्थित-संस्थानं यस्याः सा तथा अपरेषामभिप्रायेण वक्तव्या, सा चैवम्-'एगे पुण एवमासु हम्मियतलसंठिया चंदिमसूरियसंठिई पण्णत्ता, एगे एवमासु' १५ वालग्गपोत्तियासंठिय'त्ति वालाग्रपोतिकाशब्दो देशीशब्दत्वादाकाशतडागमध्ये व्यवस्थितं क्रीडास्थानं लघुप्रासादमाह तस्या इव संस्थितं-संस्थानं यस्याः सा तथा अपरेषां मतेन अ४ भिधानीया, तद्यथा-'एगे पुण एवमासु वालग्गपोत्तिया संठिया चंदिमसूरियसंठिई पण्णता, एगे एवमासु'१६। तदेवमुक्ताः परतीथिकानां प्रतिपत्तयः, एतासां च मध्ये या प्रतिपत्तिः समीचीना तामुपदर्शयति-तत्थे'त्यादि, तत्र-तेषां षोडशानां परतीथिकानां मध्ये ये ते वादिन एवमाहुः-समचतुरस्रसंस्थिता चन्द्रसूर्यसंस्थितिः प्रज्ञप्ता इति, एतेन नयेन नेतव्यंएतेनाभिप्रायेणास्मन्मतेऽपि चन्द्रसूर्यसंस्थितिरवधार्येति भावः, तथाहि-इह सर्वेऽपि कालविशेषाः सुषमसुषमादयो युगमूलाः, युगस्य चादौ श्रावणे मासि बहुलपक्षप्रतिपदि प्रातरुदयसमये एकः सूर्यो दक्षिणपूर्वस्यां दिशि वर्त्तते तद्वितीयस्त्वपरोत्तरस्यां चन्द्रमा अपि तत्समये एको दक्षिणापरस्यां दिशि वर्तते द्वितीय उत्तरपूर्वस्यामत एतेषु युगस्यादौ चन्द्रसूर्याः समचतुरस्रसंस्थिता वर्तन्ते, यत्त्वत्र मण्डल कृतं वैषम्यं यथा सूयौं सर्वाभ्यन्तरमण्डले वर्तेते चन्द्रमसौ सर्वबाझे इति तदल्पमितिकृत्वा न विवक्ष्यते, तदेवं यतः सकलकालविशेषाणां सुषमासुषमादिरूपाणामादिभूतस्य युगस्यादौ समचतुरस्रसंस्थिताः सूर्यचन्द्रमसो भवन्ति ततस्तेषां संस्थितिः समचतुरस्रसंस्थानेनोपवर्णिता, अन्यथा वा यथासम्प्रदाय समचतुरस्रसंस्थितिः परिभावनीयेति, 'नो चेव णं इयरेहिंति नो चेव-नैव इतरैः-शेषैर्नयैश्चन्द्रसूर्यसंस्थितिख़तव्या, तेषां मिथ्यारूपत्वात् , तदेवमुक्ता चन्द्रसूर्यसंस्थितिः। सम्प्रति तापक्षेत्रसंस्थितिमभिधातुकामः प्रथमतस्तद्विषयं प्रश्नसू तिपदि प्रालयां दिशिौँ सवा SCARSA Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy