________________
सूर्यप्रज्ञप्तिवृत्तिः (मल.)
॥६९॥
संठिय'त्ति चक्रस्य-रथाङ्गस्य यदर्द्धचक्रवालं-चक्रवालस्या? तद्रूपं संस्थितं-संस्थानं यस्याः सा तथा, अन्येषामभिप्रा
४प्राभृतम् येण वक्तव्या, सा चैवम्-‘एगे पुण एवमाहंसु चक्कद्धचक्कवालसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमासु'७, 'एगे पुण'इत्यादि, एके पुनराहुः छत्राकारसंस्थिता चन्द्रसूर्यसंस्थितिःप्रज्ञप्ता, अत्रैवोपसंहारः 'एगे एवमाहंसु' ८ 'गेइसठिय'ति । गेहस्येव-वास्तुविद्योपनिबद्धस्य गृहस्येव संस्थितं-संस्थानं यस्याः सा तथा अपरेषां मतेन चन्द्रसूर्यसंस्थितिर्वक्तव्या, सा| चैवम्-'एगे पुण एवमाहंसु गेहसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु' ९, 'गेहावणसंठिय'त्ति गृहयुक्त आपणो गृहापणो-वास्तुविद्याप्रसिद्धस्तस्येव संस्थितः-संस्थानं यस्याः सा तथा अन्येषामभिप्रायेण वक्तव्या, सा चैवम्-'एगे पुण एवमाहंसु, गेहावणसंठिया चंदिमसूरियसंठिई पण्णत्ता, एगे एवमाहं' १०, 'पासायसंठिय'त्ति प्रासादस्येव संस्थान यस्याः सा तथाऽन्येषामभिप्रायेण वक्तव्या, सा चैवम्-'एगे पुण एवमाहंसु, पासायसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु' ११ 'गोपुरसंठिय'त्ति, गोपुरस्येव-पुरद्वारस्येव संस्थितं-संस्थानं यस्याः सा तथाऽन्येषां मतेनाभिधातव्या, सा चैवम् –'एगे पुण एवमाहंसु गोपुरसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमासु' १२ 'पेच्छाघरसंठिय त्ति प्रेक्षागृहस्येव वास्तुविद्याप्रसिद्धस्य संस्थित-संस्थानं यस्याः सा तथा अपरेषां मतेनाभिधातव्या, तद्यथा-'एगे पुण एवमाहंसु पिच्छाघरसंठिया चंदिमसूरियसंठिई पण्णत्ता, एगे एवमासु' १३, 'वलभीसंठिय'त्ति वलभ्या इव-गृहाणा
॥६९॥ माच्छादनस्येव संस्थितं-संस्थानं यस्याः सा तथा अन्येषां मतेनाभिधातव्या, सा चैवम्-'एगे पुण एवमाहंसु क्लभीसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु' १४,' 'हम्मियतलसंठिय'त्ति हयं-धनवतां गृहं तस्य तल-उपरितनो
Bain Education International
For Personal & Private Use Only
www.jainelibrary.org