SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ भगवन् ! चन्द्रसूर्यसंस्थितिराख्याता इति वदेत् ?, इह चन्द्रसूर्यविमानानां संस्थानरूपा संस्थितिः प्रागेवाभिहिता| तत इह चन्द्रसूर्यविमानसंस्थितिश्चतुर्णामपि अवस्थानरूपा पृष्टा द्रष्टव्या, एवमुक्ते भगवानेतद्विषये यावत्यः परतीर्थिकाणां प्रतिपत्तयस्तावतीरुपदर्शयति-तत्थे'त्यादि, तत्र चन्द्रसूर्यसंस्थितौ विचार्यमाणायां खल्विमाः षोडश प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-एके वादिन एवमाहुः-समचतुरस्रसंस्थिता चन्द्रसूर्यसंस्थितिः प्रज्ञप्ता, समचतुरस्रं संस्थिति-संस्थान यस्याश्चन्द्रसूर्यसंस्थितेः सा तथा, अत्रैवोपसंहारवाक्यमाह-एगे एवमाहंसु, एवं सर्वत्रापि प्रत्येकमुपसंहारवाक्यं द्रष्टव्यं १, एके पुनरेवमाहुः विषमचतुरस्रसंस्थिता चन्द्रसूर्यसंस्थितिराख्याता, अत्रापि विषमचतुरस्र संस्थानं यस्याः सा तथेति विग्रहः २, एवं 'समचउक्कोणसंठिय'त्ति एवं-उक्तेन प्रकारेणापरेषामभिप्रायण समचतुष्कोणसंस्थिता चन्द्रसूर्यसंस्थितिवक्तव्या, सा चैवम्-'एगे पुण एवमाहंसु समचउक्कोणसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु' अत्र 'समचउक्कोणसंठिय'त्ति समाश्चत्वारः कोणा यत्र तत् समचतुष्कोण ( तत् ) संस्थितं-संस्थानं यस्याः सा तथेति विग्रहः ३, 'विसमचउक्कोणसंठिय'त्ति 'एगे पुण एवमाहंसु-विसमचउक्कोणसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमासु' ४ 'समचक्कवालसंठिय'त्ति समचक्रवालं-समचक्रवालरूपं संस्थित-संस्थानं यस्याः सा तथा अपरेषामभिप्रायेण चन्द्रसूर्यसंस्थितिवक्तव्या, सा चैवम्- 'एगे एवमाहंसु समचक्कवालसंठिया चंदिमसूरियसंठिई पण्णत्ता, एगे एवमासु' ५, 'विसमचक्कवालसंठिय'त्ति विषमचक्रवालं-विषमचक्रवालरूपं संस्थित-संस्थानं यस्याः सा तथा अन्येषां मतेन चन्द्रसूर्यसंस्थितिर्वक्तव्या, सा चैवम्-'एगे एवमाहंसु विसमचक्कवालसंठिया चंदिमसूरियसंठिई पण्णत्ता, एगे एवमाहंसु'६, चक्कद्धचक्कवाल Jain Education Inter nal For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy