SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ प्रतापक्षेत्रसंस्थितिः प्रज्ञप्ता, अत्र विग्रहभावना प्रागिव वेदितव्या, अत्रोपसंहारः 'एगे एवमाहंसु' १०, एवं-उक्तेन प्रकारेण उद्यानसंस्थिता तापक्षेत्रसंस्थितिरपरेषामभिप्रायेण वक्तव्या, सा चैवम्-'एगे पुण एवमाहंसु, उज्जाणसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु, (ग्रंथाग्रं २०००) अत्र उद्यानस्येव संस्थितं-संस्थानं यस्याः सा तथेति विग्रहः ११. ला निजाणसंठियत्ति निर्याणं-पुरस्य निर्गमनमार्गः तस्येव संस्थितं-संस्थानं यस्याः सा तथा अपरेषामभिप्रायेण वक्तव्या, सा चैवम्-'एगे पुण एवमाहंसु, निजाणसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमासु' १२, 'एगतोनिसहसंठिय'त्ति एकतो-रथस्य एकस्मिन् पार्श्वे यो नितरां सहते स्कन्ध पृष्ठे वा समारोपितं भारमिति निषधो-बलीवईस्तस्येव संस्थितं-12 संस्थानं यस्याः सा एकतोनिषधसंस्थिता अपरेषामभिप्रायेण वक्तव्या, सा चैवम्-'एगे पुण एवमासु, एगतोनिसहसंठिया तावखित्तसंठिई पण्णत्ता, एगे एवमासु' १३, 'दुहतोनिसहसंठिय'त्ति अपरेषामभिप्रायेणोभयतोनिषधसंस्थिता वक्तव्या, उभयतो-रथस्योभयोः पार्श्वयोयौँ निषधौ-बलीवौं तयोरिव संस्थितं-संस्थानं यस्याः सा तथा, सा चैवं वक्तव्या-'एगे पुण एवमासु दुहओनिसहसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमासु' १४ 'सेयणगसंठिय'त्ति श्येनकस्येव संस्थितं-संस्थानं यस्याः सा तथा अपरेषामभिप्रायेणाभिधातव्या, सा चैवम्-'एगे पुण एवमाहंसु सेयाणसंठिया तावखित्तसंठिई पन्नत्ता एगे एवमाहंसु' १५, 'एगे पुण'इत्यादि, एके पुनरेवमाहुः, सेचनकपृष्ठस्येव-श्येनपृष्ठस्येव संस्थितं-संस्थानं यस्याः सा तथा तापक्षेत्रसंस्थितिः प्रज्ञप्ता, अत्रोपसंहारमाह-एगे एवमाहंसु' १६, तदेवमुक्ताः षोडशापि प्रतिपत्तयः, एताश्च सर्वा अपि मिथ्यारूपा अत एता व्युदस्य भगवान् स्वमतं भिन्नमुपदर्शयति-'वयं पुण'इत्यादि, dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy